SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः चिकित्सितस्थानम् । २४६७ लखितं वमनाहत्वे च वामितं ततो मण्डादिक्रमेणोपचरितं क्षयानिलजादिज्वरितश्च मण्डादुरपचरितं, मयोत्थज्वरितादिन्तु तपणेनोपचरितं, तरुणज्वरित पाचनं कषायं पाययेत्। वस्तिदिनपरिहारवज्ज्वरारम्भदिनं त्यक्त्वा षड़हं यावज्ज्वरमृदूभावात् एवंरूपेण षड़हेऽतीतेऽर्थात् सप्तमेऽहन्यतीते सति अष्टमेऽहनि यदि निरामश्चेत् तदा लध्वनप्रतिभोजितं ज्वरहितवक्ष्यमाणतण्डुलानां लघ्वन्न मुद्गसूपजाङ्गलमांसरसादिना तत्तज ज्वरे प्रतिदोषविपरीतरूपेण भोजितमिति प्रतिभोजितं भिषजा भुञ्जानं प्रयोजितं निरामज्वरितं शमनीयं तत्तज्ज्वरदोषाणां शमनस्येदमिति शमनीयं काथादिकषायं पाययेत्। यदि सप्ताह यावदुक्तरूपेण लखनादिक्रमेग पाचनकवायेग नवज्वरस्य नैराम्यं न भवति तदा यावज्ज्वरमृदुभावात् सप्ताहात् परतोऽपि तथैवानिवलमपेक्ष्य यथास्यौषधसिद्धयवाग्वादीन् पाययेत् । पाचनमामदोषपाचकं काथादिकषायञ्च व पाययेत्, मालया स्वरूपेण च यत्, तत्प्रतिभोजितं ज्वरितमष्टमेऽहनि कषायं पाययेत् इति वाक्याथः । एवञ्च पूर्वोक्ताष्टाहकृतनिरामताव्यवस्थया पाचनस्य शमनोयस्य वा उपयोग उपपन्नो भवति । ननु पेयाप्रयोगे “यावजज्वरमृदूभावात् षड़हे वा विचक्षणः" इत्युक्तम्, ततश्च पेययैव तावत् षड़हो व्याप्यते, पूर्वञ्च ज्वरादौ लङ्घनमुक्तम्, तच्चानिर्दिष्टकालमपि 'लङ्घनेन क्षयं नीते' इत्यादि. ग्रन्थोक्तलचितफलं यावता कालेन भवति, तावत्कालं कर्त्तव्यम् । हारीतेन तु कालोऽपि दर्शितः, यथा--"लङ्घनं लङ्घनीयानां कुर्याद दोषानुरूपतः। विरानमेकरात वा षड्रातमथवा ज्वरे ॥” इति । तेन ज्वरलङ्घनदिने तथा षड़हेनैव समं ज्वराहादारभ्याष्टाहातिक्रमोऽपि भवति, ततश्च ज्वराहादारभ्याष्टाहे पाचनशमनीयकषायो भवतु। तस्मात् पेयाप्रयोगषड़हेऽतीते "पाचनं शमनीयं वा कषायं पाययेत्” इत्यभिप्रायः। तथा “ज्वरे पेयां कषायांश्च सर्पिः क्षीरं विरेचनम्। षड़हे षड़हे देयं वीक्ष्य दोषबलाबले" इत्यनेन ग्रन्थेनापि पेयाप्रयोगपड़हादूद्धं कषायषड़ह उक्तः। न तु स्वरोत्पादादिषड़हादुद्धम् ; अव ब्रम:-"यावज्ज्वरमृदूभावात् षड़ह वा विचक्षणः” इत्यनेनापि ज्वरोत्पाददिनादारभ्य षड़हपर्यन्तं पेयाप्रयोग उच्यते, पेया ज्वरे प्राधान्येन दोषपाचनार्थ प्रयुज्यते। यदुक्तम् ,-"लङ्घनं स्वेदनं कालो यवाग्वस्तिक्तको रसः। पाचनान्यविपक्कानां दोषाणां तरुगे ज्वरे ॥” इति। लङ्घनादिपाचनीयत्वं दोषाणामष्ठाहादागेव, अष्टाहादूर्धन्तु कषायेणैव पाचनमुक्तम् । तत लवनीये वातज्वर आदिदिनप्रभृति पेया षड़हमपि प्राप्नोति, एकद्विविदिनलद्धिते ज्वरे पेया पञ्चचतुस्त्रिदिनप्रयोगेण ज्वरदिनादारभ्य षड़हपर्यन्तं कर्तव्या। यत्र तु दोषाणामपि सामतया तरुणवातज्वरे लङ्घनमेव पड़ातादिक्रमेण वा क्रियते, तत्र प्रादेशिके विधौ नायं पेयाषावनियम औत्सर्गिकः प्रवर्त्तते। किञ्चातिमात्रलङ्घनप्रयोगे पेया न दोषपाचनार्थ क्रियते, मूरिलङ्घनक्षपिताग्नेः सन्धुक्षणार्थम् , तव अग्निसन्धुक्षणे जाते पुनरौषधपानमेव भवति। "ज्वरे पेया कषायाश्च" इत्यादौ पेया समानकार्याणां लङ्घनादीनामप For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy