SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६४ चरक-संहिता। [ज्वरचिकित्सितम् मदात्यये मद्यनित्ये ग्रीष्मे पित्तकफाधिके। ऊर्द्धगे रक्तपित्ते च यवागून हिता ज्वरे ॥८७॥ तण्डुलजलयोनिमप्युक्तमन्यत्र। “अन्न पञ्चगुणे साध्यं विलेपी च चतुर्गुणे। मण्डश्चतुर्दशगुणे यवागूः षड्गुणेऽम्भसि॥” इति । अत्र यवागूः पेया पेयासाधनजलमानानुक्तेमंण्डविलेपीपेयातिरिक्तयवाग्वा अभावाच्च ॥८६॥ । गङ्गाधरः-ननु मद्यकृतादन्यस्मिन् सर्वस्मिन्नेव ज्वरे तर्हि किं यवाहिता इत्यत आह–मदात्यये इत्यादि। मदात्यये व्याधौ सति यदि ज्वरः स्यात् तहि तत्र ज्वरे यवागूने हिता उष्णवात्। एवं मद्यनित्ये सततमद्यपानशीले पुसि यो ज्वरस्तत्र ज्वरे च न हिता उष्णवात् । एवं ग्रीष्मे काले यो ज्वरः स्यात् तत्र ज्वरे च। तथा पित्तकफाधिके पित्ताधिके ज्वरे च न हितोष्णखात् । एतेन क्रोधजज्वरेऽपि पित्तान्वयान यवाहिता भवति । कफाधिके च ज्वरे न हिता द्रवत्वात् । तदुभयाधिके च ज्वरे यवागूने हिता द्रवोष्णखात्। उक्तश्चान्यत्र “पांशुधाने यथा दृष्टिः क्लेदयत्यतिकईमम् । तथा श्लेष्मणि संवृद्धे यवागूः श्लेष्मवर्द्धनी॥” इति । एवमूर्द्धगे रक्तपित्ते च यो ज्वरो भवति तस्मिंश्च ज्वरे यवागूने हितेति। कफानुगत्वेनोद्ध गस्य रक्तपित्तस्य यवागूरुष्णद्रवखाद्विरुध्यते इत्यर्थः। एभ्योऽन्येषु क्षयानिलभयकामशोकश्रमजज्वरेषु प्रथमत एव विनापि वमनलङ्घने समाचरणं ख्याप्यते। क्षयजादिभ्योऽन्यत्र तु वमिते लविते सति यवागविधीयते ॥८७॥ तथा मदात्ययेऽपि व्याधौ, तथा मद्यनित्ये मद्यपे अन्यहेतुजोऽपि यो ज्वरः, तथा प्रीष्मे, तथा पित्त. कफाधिके यो ज्वरः, तथोर्द्ध रक्तपित्तिनो यो ज्वरः, तेषु सर्वेषु पेया न देया। इह मदात्ययादीनां पेयाहेषु जातोऽपि ज्वरः पेयानहः। 'पित्तकफाधिके' इत्यनेन पित्तकफयोरतिमालोद्गमे सति पेयाया अदानं बोधयति । तेन कफजे ज्वरे पित्तजे ज्वरेऽनुभूतदोषे पेया दातव्या। तथा हि तन्त्रान्तरे"कफजेऽपि यदा क्षीणो लड्चनादिक्रमात् कफः। शस्ता एव यवाग्वस्तु तत्र पित्तेऽप्ययं क्रमः॥" इति । तथात्रैव-"पैत्तिके वाथ शीतां मधुयुतां पिबेद यवागूम्" इत्यनेन पित्तेऽपि यवागू वक्ष्यति ; यदुक्तम्-“पांशुधाने यथा वृष्टिः क्लेदयत्यतिकईमम् । तथा श्लेष्मगि संवृद्ध यवागू श्लेष्मवर्द्धनी" इति हारीतेनोक्तम्, तदतिवृद्धकफविषयं ज्ञेयम्। अन्ये तु मिलितपित्तकफाधिक पुरुषे यथागूप्रतिषेधमिच्छन्ति। यदि तु 'ऊर्द्धगे कफपित्ते च' इति पाठस्तदा वातज्वरिणोऽपि जागं कफपित्तं वमनेन नायाति स्वयम्, तदापि पेया न देयेत्यर्थः । सुश्रुते तु "कफपित्तपरीतस्य जर्दाऽसृपित्तिनस्तथा। मद्यनित्यस्य न हिता यवागूः" इत्युक्तम् । तेन 'ऊर्चगे रक्तपित्ते' इति पाठो युक्तः ॥ ८६ । ८७ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy