SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४५८ चरक-संहिता। ज्वरचिकित्सितम् दोपनं पाचनञ्चैव ज्वरनमुभयश्च तत् । स्रोतसां शोधनं बल्यं रुचिस्वेदकरं परम् ॥८३॥ मद्यस्य तीक्ष्णस्य विपरीतस्तिक्तको रसः, पित्तस्यापीति शापितम् । तेन सव्वत्रेव मद्योत्थव्याधिषु तिक्तको रसो. विहित इति गम्यते । दीपनं वह्निदीपनं पाचनमामदोषपाचनञ्चव तदुभयम् उष्णजलं तिक्तकैः शृतशीतजलञ्चेत्युभयं जलम् । यत् तु दीपनं तदेव पाचनं भवतीति-नाशयम्। घृता हि दीपनमपि नामदोषपाचनम्। अस्तु च यत् तु पाचनं तदेव दीपनमिति सत्यं संशमनः शृतादिकषायस्तु दीपनोऽपि न पाचनः सामे तदुपयोगनिषेधादगम्यते। ननु वातपित्तजे पित्तकफजे सन्निपातज च किं जलं देयमिति ? उच्यते।. वायोयोगवाहखात् पित्तसंयोगेन दाहकत्त खवचनात् पित्तवावस्था, वातपित्तजे पित्तकफजे तु तिक्तकरसस्य पित्तकफयोविपय्ययात् तिक्तकभृतशीतमेव व्यवस्थीयते। तत्र पित्ताधिक्यञ्चेच्छीतमेव, कफाधिक्ये तु तिक्तकैः शृतमुष्णमेवेति व्यवस्था। अथवा विमानस्थाने प्रोक्तम्-किं नु खलु ज्वरितेभ्यः पानीयमुष्णं प्रयच्छति इत्यादिना साधारण्येन ज्वरहिततया यदुक्तमुण्णं जलं तदेव पैत्तिकज्वरमद्योत्थज्वरव्यतिरिक्तज्वरेषु व्यवस्थेयमिति । ननु कषायांश्च विवज्ज येदित्युक्तं कथमत्र तिक्तकैः शृतं जलं विधीयते ?. उच्यते। कषायरसस्य तरुणज्वरे वजनात अविरुद्धखात् तिक्तकशृतशीतलसलिलविधिरतेन तिक्तकः शृतवचनेन ज्ञापितम् । कषायरसयोनिव्यतिरिक्तस्वरसकल्कचर्णावलेहगुड़िकाशीतफाण्ट-काथकषायादिरूपः कषायो न नवज्वरे वज्यं इति औषधसाधितसलिलसाध्यखात् पेयादीनामपि । अत एव वृद्धाः सलिल विधानमूचुर्यदप्सु शृतशीतास्वित्यादुाक्त्वा तथाहुश्च । “मुख्यभेषजसम्बन्धो निषिद्धस्तरुणे ज्वरे। तोयपेयादिसंस्कारे निर्दोषं तेन भेषजम्” इति.। तेन।तोयपेयादिसंस्कारार्थ प्रयुज्यमानं द्रव्यं गौणभेषजं शोधनशमनार्थन्तु प्रयुज्यमानं द्रव्यं मुख्यभेषजमिति। सुश्रुतेऽप्युक्त “सप्तरात्रात् परं केचित् मन्यन्ते देयमौषधम्। दशरात्रात् परं केचिद दातव्यमिति निश्चिताः। पत्तिके वा ज्वरे देयमल्पकालसमुत्थिते। अचिरज्वरितस्यापि त्रिदोषकफपित्तज्वरयोस्तु यद्यपीह पानीयं नोक्तं, तथापि सामान्येन विमानस्थाने 'यदुक्तम्"किं नु खलु ज्वरितेभ्यः पानीयमुष्णं प्रयच्छन्ति” इत्यादिना तत्प्रामान्यादृष्णमेव जलं देयम् । वातपैत्तिके तु ज्वरे अत्यर्थदाहादिकारके शीतलमेव देयमित्यपि विमान एव "अत्यर्थोल्सन्नपित्त" इत्यादिना ग्रन्थे मूरितम् ॥ ८३ ॥. ... For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy