SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४५६ चरक-संहिता। ( ज्वरचिकित्सितम् प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः॥८१॥ लकनं स्वेदनं कालो यवाग्वस्तिक्तको रसः। - पाचनान्यविपक्वानां दोषाणां तरुणे ज्वरे ॥२॥ - ननु कियन्तं कालं ज्वरे लङ्घनं कत्तव्यमित्यत आह-प्राणाविरोधिनेत्यादि। अत्र प्राणो बलम् । तस्याविरोधिना लङ्घनेन एनं प्रान पिवर्तमानान्यतरज्वरिणमुपपादयेदुपाचरेत्। कुत इत्यत आह-बलाधिष्ठानमित्यादि। बलमधितिष्ठत्यस्मादिति बलाधिष्ठानमारोग्यं न तु बलस्याधिष्ठानमात्रमारोग्यं सुखसंक्षकं ह्यारोग्यमुक्तं धातुसाम्यश्च न च तद्यं बलाधिष्ठितिरपि तु ते बलाधिष्ठानेनानुमीयेते सुरवं धातुसाम्येञ्चेति। बलक्षये च लङ्घनेन कथमारोग्यं स्यात् । न चास्वारोग्यमिति न प्रयोजनम् अस्य लङ्घनादिचिकित्साक्रियाक्रमश्च। तदाह-यदर्थ इति। अयं तावल्लङ्घनादिः क्रियाक्रमः यदर्थः यदारोग्यमोऽस्य स आरोग्यार्थ एवायं लङ्घनादिः क्रियाक्रमस्तस्मात् प्राणाविरोधिना लङ्घनेन चकारात् वक्ष्यमाणेन वमनादिना च प्राणाविरोधिनैनमुपपादयेदित्यर्थः। सुश्रुतेऽपि “आनद्वस्तिमितैर्दोषैर्यावन्तं कालमातुरः। कुर्य्यादनशनं तावत् ततः संसर्गमाचरेत्” इति, संसर्ग पेयादिकसेवनमिति। लङ्घनस्य सम्यककृताकृतातिकृतलक्षणानि लङ्घन हणीयाध्याये वातमूत्रपुरीषाणां विसर्ग इत्यादिना प्रोक्तेन जानीयात् । सुश्रुते च “सृष्टमारुतविण्मूत्रं क्षुत्पिपासासहोदयम्। प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् मुलवितम्। बलक्षयस्तृषाशोषस्तन्द्रानिद्राभ्रमलमाः। उपद्रवाश्च श्वासाद्याः सम्भवन्त्यतिलङ्घनात्” इति ॥ ८१॥ गङ्गाधरः-ननु ज्वरे तूत्पन्ने लङ्घनमिव तावद्दोषपाचनमन्यत् किमित्यत आह-लङ्घनमित्यादि । स्वेदनं स्वेदः। कालोऽष्टाहरूपः । यवाग्वः पेयामण्डविलपी चेति त्रिधाभिप्रायेण बहुवचनम्, ताश्चौषधसिद्धा एव न तु निरौषधाः। तिक्तको प्राणाविरोधिनेति बलाविरोधिना, विरोधश्च अतिक्षयकरत्वेनेहोच्यते। भारोग्यं बलवत एव भवतीति बलाधिष्टानमारोग्यमुक्तम् । 'यत्' इत्यारोग्यं प्रत्यवमृशति ॥ ८॥ चक्रपाणि:-प्रकृतस्य लङ्घनस्य पाचनतां दर्शयन्नअपराध्यपि स्वेदादीनि पाचनान्याहलङ्घनमित्यादि। काल इत्यष्टाहः। तिक्तको रसोऽत्र यवागूपानीयादिसंस्कारकत्वेन ज्ञेयः । स्वतन्त्रभेषजप्रयोगस्तरुणे निषिद्ध एव। उक्तञ्च-भेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम्" For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy