SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir इय अध्यायः] चिकित्सितस्थानम्। २४५१ ज्वरोऽविसर्गी बलवान् दोषाणामप्रवर्त्तनम् । लालाप्रसेको हृल्लासः क्षुन्नाशोऽविशदं मुखम् ॥ स्तब्धसुप्तगुरुत्वञ्च गात्राणां बहुमूत्रता। नविड जीर्णा न च ग्लानिर्ध्वरस्यामस्य लक्षणम् ® ॥७॥ लघुवश्च भवत्युदरस्य विशुध्यति च हृदयं न च भवन्ति तन्द्रालस्यादीनि। तस्माजाठराग्नौ स्थानात् प्रच्युतेऽरुच्यादीन्येतानि भवन्ति । हृदयस्याविशुद्धत्वं हृदयजाड्यम् । तन्द्रा निद्रावत् क्लान्तिः। आलस्यं कम्मस्वनुत्साहः । ज्वरश्चाविसर्गी अपरित्यागी बलवांश्च । दोषाणां हृदयादितः श्लेष्मपित्तादीनां मलानामप्रवत्तेनमनिगमः वह्निना दुर्बलेन स्तम्भभङ्गाभावात् । लालाप्रसको हृदयस्थस्य रसस्य लालारूपेण प्रवृत्तः। हल्लासश्चामरसान्वितस्य हृययस्थदोषस्योपस्थितवमनमिव प्रवृत्तिः। क्षुनाशश्चाग्निदुर्बलखात्। मुखश्चाविशदं सपिच्छिलम् अविशुद्धमित्यर्थः। गात्राणां स्तब्धसुप्तगुरुवश्च मात्रस्तम्भो गात्राणामस्पन्दप्रायः, गात्रसुप्तिः स्पर्शाभिज्ञानाभावः। बहुमूत्रता च रसाधिक्यात् । न च जीर्णा पक्का विड़ भवति न च ग्लानिर्भवति। इदं सव्वमामस्य तरुणस्य ज्वरस्य लक्षणम् । सुश्रुतेऽपि । “दोषाः प्रकुपिताः स्वेषु कालेषु स्वैः प्रकोपणैः। व्याप्य देहमशेषेण ज्वरमापादयन्ति हि। दुष्टाः स्वहेतुभिदोषाः पाप्यामाशयमुष्मणा। सहिता रसमागत्य रसस्वेदप्रवाहिणाम् । स्रोतसां मागेमावृत्य मन्दीकृत्य हुताशनम् । निरस्य वहिरुष्माणं पक्तिस्थानाच्च केवलम् । शरीरं समभिव्याप्य स्वकालेषु ज्वरागमम् । जनयन्त्यथ वृद्धिश्च स्ववणेश्च लगादिषु ।” इत्यारभ्य हेतुमुक्त्वा "तैवेगवद्भिबहुधा समुद्घान्तबिमार्गगैः। विक्षिप्यमाणोऽन्तरग्निभेवत्याशु वहिश्चरः । रुणद्धि चाप्यपां धातु यस्मात् तस्माज्ज्रातुरः। भवत्यत्युष्णगात्रश्च न च विद्यति सर्वशः॥” इति ॥ ७८॥ 'ना' इति पुरुषः। भविसर्गीति नित्यानुषक्तः। दोषाणामिति मलसम्बन्धानां दोषाणाम् । अप्रवर्सनमविसर्गः। भुनाश इति बुभुक्षाभावः। न विड जीर्णेति न पुरीषं पक्वम्। न ग्लानिरिति न क्षीणमांसता ॥ ७७१७८ ॥ * इतःपरं ज्वरवेगोऽधिकस्तृष्णा प्रलापः श्वसनं श्रमः । मलप्रवृत्तिरुत्क्लेशः पच्यमानस्य लक्षणम् ॥ इति श्लोकोऽधिकः क्वचित् पठितः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy