________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४४४
३थ अध्यायः ] चिकित्सितस्थानम् ।
संस्कृष्टाः सन्निपतिताः पृथग् वा कुपिता मलाः । रसाख्यं धातुमन्वेत्य पक्तिं स्थानान्निरस्य च ॥ स्वेन तेनोष्मणा चैव कृत्वा देहोष्मणो बलम् । स्रोतांसि रुद्धा संयाताः केवलं देहमुल्वणाः॥
वद्वावादीनां लिङ्गाननिश्वासबहुलादिभिः कामादिजैश्च लिङ्गैर्व्यामिश्रलक्षणाः सन्तो हेलौषधविशिष्टाः कामादिहेतूनां शारीरहेतुवातादीनां प्रत्यनीकरोषधंविशिष्टाश्च भवन्ति ॥७६॥
गङ्गाधरः-ननु वातादिजानां यानि यानि लक्षणान्युक्तानि तेषां किञ्चिल्लक्षणं सन्तापरूपं केवलान्वयि सर्वेषु ज्वरेष्वन्वयात् । कानिचिल्लक्षणानि निद्रानाशादीनि अन्वयव्यतिरेकीणि वातादिज्वरे ह्यन्वयीनि कफादिज्वरे व्यतिरेकीणि। तश्चानुमीयतां ज्वरः। यानि च व्याध्यन्तरे चान्वयीनि सन्ति कथम् अनुमीयते ज्वरः ऐकान्तिकखाभावादिति चेत् तत्र सम्माप्तिमाह-संसृष्टा इत्यादि। मला वातपित्तकफाः शरीरमलिनीकरणात् ते पृथगज्वरनिदानस्थानोक्तस्वस्खनिदानत एकशः कुपिता वा तनिदानद्वयतः संसृष्टाः द्विशो वा कुपितास्तनिदानत्रयतः सन्निपतितास्त्रय एव वा कुपिता रसायं धातु रसनामानमाद्य धातुमाहारपरिणामजमाद्य धातुमन्वेत्यानुगम्य पक्तिमुष्माणं जाठराग्नि स्थानान्निरस्य कोष्ठाभ्यन्तरात् शरीरे वाह्यत उत्क्षिप्य तेनोष्मणा सह देहोष्माणं मिश्रीकृत्य देहोष्मणो बलं कुला स्रोतांसि
रहिताः। निजैरिति निजदोषलक्षणैः। हेत्वौषधविशिष्टाश्चेति निनाज ज्वराद् विशिष्टहेतवी विशिष्टौषधाश्च भवन्ति । तत्र विशिष्टो हेतुरभिघातादिः। भेषजञ्च परिषेकमन्तादि ॥ ७४-७६ ॥
चक्रपाणिः-संसृष्टा इत्यादिना सर्वज्वरसाधारणसम्प्राप्तिं ब्रूते। सम्प्राप्तिरपि हि सर्वज्वराणामाकृतिरेव, तेन नोत्सूखमस्याभिधानम्। किंवा क्रमप्राप्ते सामज्वरलक्षणे वक्तव्येपुरुच्यादीनां सामज्वरलक्षणानामुत्पादे उपपत्तिं दर्शयितु सम्प्राप्तिरुच्यते। संसृष्टा इति युग्मभूताः । सनिपतिता इति खयो मिलिताः । पक्तिमिति पक्तिहेतुतया जाठराग्निं ब्रूते। स्थानादिति ग्रहण्याः, ग्रहणी जाठराग्निस्थानम्। स्वेनेति दोषोष्मणा, तेनेति जाठराग्न्युष्मणा। देहोष्मण इति सकलदेहचारिणः प्राकृतोष्मणः। वातश्लेष्मणोस्तु यद्यपि पित्तवष्मा नास्ति, तथापि तयोर्भूतत्वे उष्मा योऽस्ति, स इह ग्राह्यः । वक्तव्यं हि ग्रहण्यध्याये-"भौमाप्याग्नेयवायव्याः पोष्माणः सनाभसाः" इति । किंवा तेनेति शिव्यरूपज्वराधिष्ठानप्रभावकृतं दोषाणामुष्माणं
For Private and Personal Use Only