SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः चिकित्सितस्थानम्। २४३६ मुहुर्दाहो मुहुः शीतं स्वेदः स्तम्भो ® मुहुर्मुहुः । मोहः कासोऽरुचिस्तृष्णा श्लेष्मपित्तप्रवर्त्तनम् ॥ लिप्ततिक्तास्यता तन्द्रा श्लेष्मपित्तज्वराकृतिः। इत्येते द्वन्द्वजाः प्रोक्ताः सन्निपातज उच्यते ॥ ४६॥ सन्निपातज्वरस्योर्द्ध त्रयोदशविधस्य च। प्राकसूत्रितस्य वक्ष्यामि लक्षणं वै पृथक् पृथक् ॥ ५० ॥ भ्रमः पिपासा दाहश्च गौरवं शिरसोऽतिरुक। वातपित्तोल्वणे विद्याल्लिङ्ग मन्दकफे ज्वरे ॥५१॥ शैत्यं कासोऽरुचिस्तन्द्रा पिपासादाहरुग व्यथाः। वातश्लेष्मोल्वणे व्याधौ लिङ्ग पित्तावरे विदुः ॥ ५२ ॥ गङ्गाधरः--मुहुर्दाह इत्यादि। पित्ताद दाहः कफात् शीतमिति, सुतरां मुहुर्दाहो मुहुः शीतं भवति । स्वेदो धर्मः । स्तम्भः स्वेदस्य न प्रवृत्तिः । पित्तात् धर्मप्रत्तिः कफात् घर्मस्य स्तम्भः, सुतरां मुहुम्महुर्घौ मुहुम्मुहुर्घमावरोधः। अन्यत्रापि “तथा स्तम्भश्च संस्वेदः कफपित्तप्रवर्तनम्” इति। मोह इन्द्रियमोहः । श्लेष्मपित्तप्रवर्तनमिति कफपित्तवमनमित्यर्थः। लिप्ततिक्तास्यता कफेन लिप्तं पित्तेन तिक्तमास्यं यस्य तस्य भावस्तथा ॥४९॥ गङ्गाधरः-अत अर्द्ध काश्मीराः पठन्ति। सन्निपातज्वरस्योद्ध त्रयोदशविधस्य हि इत्यादिना त्रयोदशविधस्य सन्निपातज्वरस्य लक्षणानि काश्मीरा यत् पठन्ति, तन्न युक्तिसिद्धप। प्रकृतिसमसमवायेन दोषजानां व्याधीनां प्रत्येकशो हि पाठो नाचार्याणां रीतिर्ग्रन्थगौरवात्, दोषभेदविकल्पेन तेषां सर्वेष्वेव व्याधिपु भिषगभिरुन्नेयखात्। विकृतिविषमसमवायेन तु शीतपित्तम्। स्तमित्यमितिआईवस्त्रावगुण्ठितत्वमिव। सन्तापो मध्यवेग इति नातितीव्रः सन्तापः। स्वेदस्तम्भ इति स्वेदाप्रवर्त्तनम् ॥ ४६-४९ ॥ चक्रपाणिः -- सन्निपातज्वरस्योद्ध 'मित्यत्र 'ऊद्ध'शब्देनाधिकवाचिना प्रकृतिसमसमवायारब्धसन्निपातज्वराद यानि विकृतिविषमसमवायारब्धज्वरस्य लक्षणानि, तानि वक्ष्यामीत्यर्थः। केचिद • स्वेदस्तम्भ इति पाठान्तरम् । + हृदव्यथाः इति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy