SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः] चिकित्सितस्थानम् । २४३७ विरेकवमने चोभे सास्थिभेदं सकूजनम्। विक्षेपणञ्च गात्राणां श्वासश्चास्थिगते ज्वरे ॥४२॥ हिक्का श्वासस्तथा कासस्तमसश्चापि दर्शनम् । मर्मच्छेदो वहिः शैत्यं दाहोऽन्तश्चैव मज्जगे ॥४३॥ शुक्रस्थानगते शुक्र-मोक्षं कृत्वा विनाश्य च । प्राणं वायुग्मिसोमैस्तु स च गच्छत्यसौ विभुः ॥ ४४ ॥ रसरक्ताश्रितः साध्यो मांसमेदोगतश्च यः। अस्थिमज्जगतः कृच्छः शुक्रस्थः सिद्धाते न हि ॥ ४५ ॥ गङ्गाधरः-विरेकेत्यादि अस्थिगतस्य। विरेकश्च वमनञ्चेति द्वे युगपद् भवतः॥४२॥ गङ्गाधरः-हिक्केत्यादि मजगतस्य। तमसो दर्शनभन्धकारप्रविष्टस्येवामंवित् । मर्माच्छेदो वक्षसश्छेदवत् पीड़ा। वहिः शैत्यमन्तर्दाहश्च ॥४३॥ गङ्गाधरः-शुक्रस्थानगते इत्यादि। शुक्रस्थानगते शुक्रमेव स्थानं न तु शुक्रस्य स्थानं शुक्रगतखार्थालाभात् शुक्रस्य स्थाननियमाभावाच। उक्तं हि मुश्रुते–“यथा पयसि सपिस्तु गुड़श्चक्षुरसे यथा। तथा सशरीरेषु शुक्र पुंसाश्च वर्त्तते ॥” तत्र गते दोषे यो ज्वरस्तत्र उघरेऽसौ विभुरात्मा शुक्रमोक्षं विशेषेण कृतान्यानपि धातून मोचयिता प्राणं विनाश्य च वाय्वग्निसोमैः पञ्चभिभूतैः सह देहाद गच्छति म्रियते इत्यथः। वाय्वग्निसोमैरित्यनेन कैवल्यं न गच्छतीति ख्यापितमपि गङ्गाकाश्यादिषु मरणात् कैवल्यं न प्रतिषिध्यते । शुक्रस्थानगते हि ज्वरे मरणमेव, न तु कैवल्यमिति भावः ॥४४॥ गङ्गाधरः-एषां सप्तानां साध्यासाध्यभावमाह-रसरक्तेत्यादि। रसादिमेदोगतान्ताश्चवारः साध्याः। अस्थिमज्जगतौ द्वौ कृच्छसाध्यौ। शुक्रस्थस्तु न सिध्यते। पुनरेतद्वचनं साध्यासाध्यप्रकरणानुरोधेन बोध्यम् ॥४५॥ ३०६ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy