SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३य अध्यायः चिकित्सितस्थानम् । २४०३ पुनराश्रयभेदेन धातूनां सप्तधा मतः। भिन्नः कारणभेदेन पुनरष्टविधो ज्वरः॥ १५ ॥ शारीरो जायते पूवं देहे मनसि मानसः॥ वैचित्त्यमरतिमा॑निर्मनसस्तापलक्षणम् । इन्द्रियाणाश्च वैकृत्यं देहे सन्तापलक्षणम् ॥ १६ ॥ दृष्टः। किं पञ्चविधं इत्यत आह–सन्तत इत्यादिनामकः। पुनश्चाश्रयभेदैन रसादिसप्तधातुगतत्वेन सप्तविधः। पुनः कारणभेदेन वातपित्तकफ-वातपित्तवातकफ-पित्तकफ-सन्निपातागन्तुभेदात् अष्टविधो ज्वरः। तत्र निजः सप्तविधः आगन्तुज एकविध आगन्तुसामान्यात् ॥१५॥ गङ्गाधरः-ननु देहमानससन्तापलक्षणो ज्वर उक्तस्तस्य शारीरखमानसत्वे को भेद इत्याकाङ्क्षायां कृतस्य पृथग भिन्नस्य चाकृतिं वक्तुमर्हसीत्यस्य प्रश्नस्य उत्तरं वक्तु शारीरमानसज्वरलक्षणमाह-शारीर इत्यादि। ज्वरो देहदोषकालबलाबलाद ये ज्वरा भवन्ति, ते पञ्चविधा एवेति वाक्यार्थः। दोषकालबलाबलादिति दोषकृतात् कालबलाबलात्। कालबलाबले ज्वरकालप्रकर्षाप्रकर्षों । तत्र सन्तते ज्वरे बलवता दोषेण सप्ताहादिप्रकृष्टत्वाद् बलवान् कालो नियम्यते, सततके तु सन्ततकालापेक्षया हीनबलेन दोषण अबलो ज्वरकालः ; स ह्यहोरात द्विकालेनाव व्यापको भवति । तथा अयमेव सततज्वरकालो हीनबलकालान्येयष्कापेक्षया बलवान् भवति । एवमन्येयष्कादिज्वरकालोऽपि व्याख्येयः। किंवा, दोषकालो दुष्टिकालः ज्वरकाल इत्यर्थः, अस्य बलाबलात् प्रकर्षाप्रकादित्यर्थः। कालप्रकर्षाप्रकर्षनियमाश्च व्याख्याता एव । अन्ये तु दोषश्च कालश्च दोषकालौ, तयोर्बलाबलादिति वदन्ति । तत्र दोषबलात् कालबलाच्च सन्ततो भवति, यदुक्तम् – “कालदृष्यप्रकृतिभिर्दोषस्तुल्यो हि सन्ततम्" इत्यादिना दोषकालबलञ्च विवरणग्रन्थेनोक्तम्, तथा दोषस्याबलत्वञ्च सप्रत्यनीकतया सततकादिषु भवति, तथा ज्वरवेगविगमे च सततकादौ कालस्याबलत्वं भवति । अत्र पक्षे दोषकालबलाबलाभ्यां सर्वज्वरा व्याप्यन्ते। ततश्च सन्ततादिपञ्चज्वरनियमो दुर्घटः स्यात् । अन्ये तु व्युत्क्रमाभिधानेन 'दोषबलाबलकालात्' इति कृत्वा व्याख्यानयन्ति ; एतच्चाशब्दं व्याख्यानम् । तृतीयकचतुर्थकाविति समासनिर्दे शेन तृतीयकचतुर्थकयोरागन्त्वनुबन्धत्वादिसाधारणधर्मयोगितां दर्शयति ॥ १५ ___ चक्रपाणिः- "पृथभिन्नस्य चाकृतिम्” इति प्रश्नस्य क्रमागतमुत्तरं शारीर इत्यादि। पूर्वमितिवचनादुत्तरकालं शारीरो ज्वरो मनस्यपि भवति, एवं मनस्युत्पादानन्तरं देहेऽपि For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy