________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३य अध्यायः ]
चिकित्सितस्थानम् ।
सन्तापः सारुचिस्तृष्णा साङ्गमर्दों हृदि व्यथा । Farप्रभाव जन्मादौ निधने च महत् तमः ॥ १० ॥ प्रकृतिश्च प्रवृत्तिश्च प्रभावश्च प्रदर्शितः ।
निदाने करणान्यष्टौ पूर्वोक्तानि विभागशः ॥ ११ ॥
२३६६
आह - सन्ताप इत्यादि । जातस्य जीवितकाले सन्तापादिपञ्चको ज्वरप्रभावः स्वाभाविकाः ज्वरस्य कर्माणि सन्तापादयो भवन्ति । जन्मादौ जन्ममात्रं बालस्य निधने मरणकाले च महत् तमो महामोहः स्यात् । निदानेऽप्युक्तं सर्व्वे प्राणभृतश्च सज्वरा एव जायन्ते सज्वरा एव म्रियन्ते स महामोहः तेनाभिभूताः प्राग्दैहिकं देहिनः कथञ्चित् किञ्चिदपि न स्मरन्ति सर्व्वप्राणिनां ज्वर एवान्ते प्राणानादत्ते इति महत् तमो देहान्तरप्राप्तिं विना तद्देहे पुनर्भवे पूर्व्वार्थविस्मरणम् अवान्तरकालेषु च ज्वरप्रभाववातिकादिभेदेन यानि यानि लिङ्गानि वाच्यानि तानि तान्येवेत्यतो नात्रोपदिष्टानि ॥ १० ॥
गङ्गाधरः - उपसंहरति - प्रकृतिरित्यादि । अथ ज्वरस्य कारणं वक्तुमहसीति प्रश्नोत्तरमाह - निदाने इत्यादि । निदानस्थाने अथ खल्वष्टभ्यः कारणेभ्यो ज्वरः संजायते नृणां तद् यथा वातात् पित्तात् कफाद् वातपित्ताभ्यां वातकफाभ्यां पित्तश्लेष्मभ्यां वातपित्तश्लेष्मभ्य आगन्तोरष्टमात् कारणादिति
For Private and Personal Use Only
पीड़ां सृजतीति मन्तव्यम् । सन्ताप इत्यादिना प्रभावमाह । प्रभावश्चानोपाधिका शक्तिरुच्यते । सन्तापादीनां प्रभावव्यपदेशः ; यतश्चायं रोगप्रभावः, ततः, वातश्लेष्मकृतेऽपि ज्वरेऽनुष्णरूपस्तापो भवति, तथा जन्मादौ निधने च महत्तमोरूपत्वं ज्वरप्रभाव इत्यर्थः । प्रकृतिश्चेत्यादिना प्रकरणसंग्रहं करोति । ' इत्यस्य प्रकृतिः प्रोक्ता' इत्यनेन प्रस्तावसंग्रहः कृतः । अध्यायान्ते त्वध्यायार्थसंग्रहं करिष्यति । एतच्च पुनःपुनः संग्रहकरणं तन्वधर्म्मत्वात् प्रशिष्यबुद्धिसमाधानार्थं कृतं ज्ञेयम् । निदान इत्यादिना कारणमाह-अष्टौ कारणानीति रुक्षादयस्त्रयो ज्वरारम्भकवातादिकत्त्वेनोक्ताः तथा 'यथोक्तानां हेतूनां मिश्रीभावात्' इत्यादिना तु द्वन्द्वानां सन्निपातस्य 'च कारणमुक्तम्, तथा आगन्तूनां कारणं तस कष्ठर वेणैवोक्तम् । अन्ये तु वातादीनेव ज्वरारम्भसम्प्राप्तिप्राप्तान् " इह खल्वाष्ठाभ्यः कारणेभ्यो ज्वरः सञ्जातः" इत्यादिग्रन्थेन निदानोक्तानि 'कारणानि ' इतिपदेन ग्राहयन्ति, 'प्रकृति' शब्देन तु वीजभूता अव्यवहितसम्बद्धा दोषा गृह्यन्ते । रुक्षादयस्तु दोषप्रकोपकारणभूता न ज्वरकारणानीति वदन्ति तस्मिन् पक्षे रुक्षादीनां ज्वरे हेतुभूतानामिहाग्रहणं स्यात्, रुक्षादीनान्तु ज्वरे हेतुत्वं दोषप्रकोपावान्तरख्यापारत्वेन भवत्येद, यथा - योगस्य स्वर्ग कर्त्तृत्वोक्तम् । द्विविधञ्च कारणं रोगाणाम्- व्यवहितं रुक्षादि, प्रत्यासन
.