________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[वाजीकरणपाद
२३६०
चरक-संहिता।
-तत्र श्लोको। हेतुर्योगोपदेशस्य योगा द्वादश चोत्तमाः । __यत् पूव्वं मैथुनात् सेव्यं सेव्यं यन्मैथुनादनु ॥ . यथा हि सेव्याः ॐ प्रमदाः कृत्स्नः शुक्रविनिश्चयः ।
निरुक्तञ्चेह निर्दिष्टं पुमान्जातबलादिके ॥२८॥ इति चिकित्सितस्थाने द्वितीयाध्याये पुमान्जातबलादिक
वाजीकरणपादश्चतुर्थः । . इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने . वाजीकरणं नाम द्वितीयोऽध्यायः ॥ २॥ वाजीकरा योगाः प्रीत्यपत्यबलप्रदाः। योज्या विशुद्धोपचित-देहः कालाय. पेक्षया। इति ॥२७॥ - गङ्गाधरः-पादार्थमुपसंहरति-तत्र श्लोकावित्यादि। पुमान् यथा जातबल इत्यादिना हेतुर्योगोपदेशस्य । पिष्टत्यादिना सन्तपंयेन्नर इत्यन्तेन द्वादश योगाः। यत्किञ्चिदित्यादि प्रहर्षित इत्यन्तेन मैथुनात् पूर्व यत् सेव्यम् । गवा स्नात्वेत्यादिना एकश्लोकेन मैथुनादनु यत् सेव्यम् । यथेत्यादिना हर्षजा इत्यन्तेन प्रमदा यथा सेव्याः। रस इत्यादिनाऽसंशयमित्यन्तेन कृतनः शुक्रविनिश्चयः। येन नारीष्वित्यनेन वाजीकरणशब्दस्य निरुक्तम् ॥२८॥ - गङ्गाधरः--पादं समापयति-इतीत्यादि। अध्यायं समापयति-अनीत्यादि। इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित.. स्थाने पुमान्जातबलादिकवाजीकरणपादश्चतुर्थः।।
समाप्तश्च द्वितीयोऽध्यायः॥२॥ निरुक्तेन विविधमपि वृष्यमवरुध्यते, यथा-शुक्रवृद्धिकरं माषादि, तथा व तिकरं सङ्कल्पादि, तथा शुक्र तिवृद्धिकरं क्षीरादि । यदुक्तमन्यत्र-"शुक्रस्र तिकरं किञ्चित् किञ्चिच्छुक्रविवर्द्धनम् । स्व तिवृद्धिकरं किञ्चित् त्रिविधं वृण्यमुच्यते ॥" विविधमपि हीदं व्यावाये बलवत्त्वं पुनःपुनर्व्यवायशक्तिञ्च करोति ॥ २६॥२७॥ चक्रपाणिः-हेतुरित्यादि। संग्रहो व्यक्तः ॥ २८ ॥
इति महामहोपाध्याय चरक चतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेदीपिकायां ..चरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां पुमान्जातवालादिक
वाजीकरणपादश्चतुर्थः ॥ समाप्तश्व द्वितीयोऽध्यायः ॥२॥ * यथा न सेव्याः इति चक्रवृतः पाठः ।
For Private and Personal Use Only