________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१२ अध्याया ]
सिद्धिस्थानम् ।
अग्निसन्धुचणार्थन्तु पूर्व पेयादिना भिषक् । रसोत्तरेणोपाचरेत् क्रमेण क्रमकोविदः ॥ स्निग्धाम्लखादुद्यानि ततोऽम्ललवणौ रसौ । स्वादुतिक्तौ ततो भूयः कषायकटुकौ ततः ॥ अन्योऽन्यप्रत्यनीकानां रसानां स्निग्धरूक्षयोः । व्यत्यासादुपयोगेन प्रकृतिं गमयेद् भिषक् ॥ ३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
३७६५
गङ्गाधरः–तत्रायं क्रमः । अग्नीत्यादि । पूर्व्वं पेयादिना परं मांसरसोत्तरेण पेयादिना क्रमेणोपाचरेत् । स्त्रिग्धेत्यादि । पूर्व्वं स्निग्धाम्लादीनि ततोऽम्ललवणौ ततः स्वादुविक्तौ ततः कषायकटुको, इत्येवमन्योऽन्यं प्रत्यनीकानां रसानां तथा स्निग्धरूक्षयोर्व्यत्यासात् स्निग्धे व्याधौ रूक्षं रूक्ष स्निग्धमित्येवसुपयोगात् प्रकृतिमातुरं गमयेद् भिषगिति ॥ ३ ॥
For Private and Personal Use Only
चक्रपाणिः- रसोत्तरेणेति व्यवस्था भवति । रसोत्तरेण पृथगन्तरं यस्मिन् स्नेहोपायादिना रसोसरेण, किंवा चममधिरेचनयोरन्तरे पेयादिना क्रमेणोपचरेदिति व्यवस्था । तत्र च निरूहाder रसादिदेव क्रमो भवतीति प्रतिपादितमेव प्राक् । किंवा रसाभ्यासक्रमोत्तरकाले यस्मिन् सत्यादिक्रमस्य रसान्तरेणाभ्यासक्रम मेवाह । स्निग्धाम्लस्वादुहृद्यानीत्यादि पेथाक्रमोत्तरकालं यदा विरेश्वनादिकम्र्मान्तरं कर्त्तव्यं तदा संशोधन मूलशरीरस्य प्रकृतिभोजनार्थ बलाप्यायनार्थं वायं रसाभ्यासक्रमो ज्ञेयः । अन्ये तु पेयादिक्रमे एव रससंस्कारार्थं स्निग्धाम्लरवाद्वादिकमं वर्णयति । rasal प्रथमं पकाशयस्थितवातसंशमनायोपयुज्यते । तथाम्ललवणौ तदूर्द्ध स्थिताग्निसन्धुक्षणार्थम् । ततः पित्तशमनार्थं स्वादुतिक्तौ । ततः पित्तो स्थित कफप्रशमनार्थं रसयुग्मानामुपयोगी पेयादिक्रमे एव । एवं द्वादशान्नकाले सर्व्वरसभोजन प्राप्तिर्विधिवज्ज्ञेया ।
योऽन्येत्यादि । अन्योऽन्यप्रत्यनीकानामिति परस्परमभिभावकानाम् । व्यत्यासादुपयोजयेदिति एकयुष्ममुपयुज्यापरस्य युग्मस्योपयोगात् प्रकृतिं गमयेदिति भोजनं गमयेत् । प्रकारान्तररसाभ्यासमाह । स्निग्ध रुक्षयोरिति स्निग्धरसमुपयुज्य रूक्षो योज्यः, रूक्षं वोपयुज्य स्निग्ध इत्यनेन क्रमेण प्रकृतिभोजनं गमयेदित्यर्थः । स्निग्वरूक्षौ रसावुदाहरणार्थमुपपन्नौ सेन गुरुलण्वादियुग्मएसव्यायासाभ्यासोऽप्यस बोद्धव्यः । किंवा कषायकटुकौ ततः इत्यनेन युग्मरसाभ्यासनमुपदर्शितम् ।