SearchBrowseAboutContactDonate
Page Preview
Page 1562
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagersuri Acharya Shri Kailassagarsuri Gyanmandir १ अध्याया। सिद्धिस्थानम् । ३७६१ द्विजो हि शिष्याध्ययनवताहिक-क्रियादिभिदेहहितं न चेष्ठते । नृपोपसेवी नृपवित्तरक्षणात् परानुरोधाद बहुचिन्तनाद भयात् ॥ नृचित्तवर्त्तिन्युपचारतत्परा मृजाविभूषानिरता वराङ्गना। सदासनादत्यनुबन्धविक्रयात् क्रयादिलोभादपि छ पण्यजीविनः॥ सदैव ते त्वागतवेगनिग्रहं समाचरन्ते न च कालभोजनम् । अकालनिर्हारविहारसेविनो भवन्ति येऽन्येऽपि सदातुराश्च ते ॥ १२ समीरणं वेगविधारणोद्धतं विबद्धसर्वाङ्गजाकरं भिषक् ।। समीक्ष्य तेषां फलवर्त्तिमादितः सुकल्पितां स्नेहवतों प्रयोजयेत् ॥१३ पुनर्नवैरण्डनिकुम्भचित्रकान् सदेवदारुत्रिवृतानिदिग्धिकान् । महान्ति मूलानि च पञ्च तद्भवान् विपाच्य मूत्रे दधिमस्तुसंयुते॥ मुरुश्च तदाह- सदातुरा इत्यादि। श्रोत्रियादयः सदाकाः। तत्र श्रोत्रिया येन कारणेन सदातुरास्तदाह-द्विज इत्यादि। राजसेवका येन सदातुरास्तदाह-नृपोपेत्यादि । वेश्या येन सदातुरास्तदाह-नृचित्तेत्यादि। पण्यजीविनो येन सदातुरमतदाह-सदेत्यादि । सदा हुअपविश्य वर्तते अत्यनुबन्धविक्रयात् क्रयादिलोभाच पण्यजीविनः सदातुरा। पभिः प्रयोजनस्ते श्रोत्रियादयः आगतवेगनिग्रहादीन्या चरन्ति । इत्येवमकालनिहारादयो ये तेऽपि सदानुरा भवन्ति । तेषां चिकित्सामाह-समीरणमित्यादि। स्नेहवती फलवर्तिम् ॥१२॥१३ गङ्गाधरः-पुनर्नवत्यादि। महान्ति पञ्चमूलानि विल्वादिपञ्चमूली। सबाराणा हितम्। पण्यजीदिनो बणिजः। यथोक्तानां सदातरस्वे हेतुमाह-द्विजो होत्यादि। देहहितं न ते इत्यादिपरजीविन इत्यन्तं यावदनुवर्तनीयम् । परानुरोधादिति नूपानुजीविपुरुषान्तरानुरोधात् । उपचारतत्परा इति पुरुषोपकारतत्पराः। मृजा शरीरमार्जनम्। पण्यं गता वैश्या इत्यर्थः। अत्यविजयादिलोमादिति निरन्तरानुबद्धक्रयविक्रयादेर्लोमात् । भाग्यानपि सदातुरानाह-कालेश्यादि। निहोरो मलादिनिर्गमः ॥१२॥ * अस्पनुबन्धविक्रययाविलोभादपि इति पाठारम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy