SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः श्य अध्यायः] चिकित्सितस्थानम्। २३५३ गुड़िकाः कारयेद् वैद्यो यथास्थूलमुडम्बरम् । तासां प्रयोगात् पुरुषः कुलिङ्ग इव हृष्यति ॥ १५ ॥ वृष्यगुड़िका। सितोपलापलशतं तदद्धं नवसर्पिषः।। क्षौद्रपादेन संयुक्तं साधयेजलपादिकम् ॥ सान्द्र गोधूमचूर्णानां पादं स्तीर्णे शिलातले। शुचौ श्लक्षणे समुत्कीर्य्य मर्दनेनोपपादयेत् ॥ शुद्धा उत्कारिकाः कार्याश्चन्द्रमण्डलसन्निभाः। तासां प्रयोगाद् गजवन्नारीः सन्तर्पयेन्नरः॥ १६॥ वृष्या लप्सिकाः। यत्किश्चिन्मधुरं स्निग्धं जीवनं वृहणं गुरु। हर्षणं मनसश्चैव सव्वं तद् वृष्यमुच्यते ॥ १७ ॥ पिप्पल्याच जड़ाया आत्मगुप्ताया निस्तुषफलचूर्णस्य मिलिखा चतुःशरावैर्युतं तद घृतं गुड़िकाः कारयेत् ॥१५॥ वृष्यगुड़िका। गङ्गाधरः-सितोपलेत्यादि। नवसपिषो नूतनस्य गव्यघृतस्य तदर्द्ध पश्चाशत्पलम् । क्षौद्रपादन क्षौद्रस्य सितोपलायाः पादेन पञ्चविंशतिपलेन संयुक्तम् । जलं पादिकं यत्र तत्। सर्व पलशतमित्यस्य विशेषणम्। सान्द्रं यथा स्यात् तथा सितोपलायाः पलशतमुक्तमानघृतादियुक्तं साधयेत्। स्तीर्णे विस्तृते गोधूमचूर्णानां पादः सितोपलापलशतात् पादो भागस्तत् सर्व लक्षणे स्तीणे शिलातले खल्वगहरे शुचौ समुत्कीर्य सम्यगुत्कारिकारूपेण मद्देनेन उपपादयेत्। ताः शुद्धा उत्कारिकाः कार्याः ॥१६॥ वृष्या प्सिकाः। गङ्गाधरः-अनुक्तान् वृष्यानुपसंहरति-यत्किश्चिदित्यादि। यतो मधुरादिकं यत्किश्चिद् द्रव्यं तत् सव्वं वृष्यम् ।। १७॥ चक्रपाणिः-पादांशिकैरिति घृतापेक्षया पादप्रमाणैः। समुत्कीर्येति विस्तीर्य, उत्कारिकाः कार्या इत्यत्र पुनःपाकेनैवोत्कारिकाकरणम् ॥ १५ ॥ १६ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy