SearchBrowseAboutContactDonate
Page Preview
Page 1513
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३७४२ चरक-संहिता। प्रसूतयोगीयो सिद्धि कफेन विषि पित्ते वा कफे विपित्तशोणितैः । व्योषतिक्तकषायः स्यात् संसृष्टे वस्तिरुत्तमः ॥ २५॥ स्याद् वस्तिव्योषतिक्ताम्लः संसृष्टे वायुना कफे। मधुरव्योषतिक्तस्तु रक्त कफविमिश्रिते ॥ २६ ॥ मारुते कफसंसृष्ट व्योषाम्ललवणो भवेत् । वस्तिर्वातेन रक्त तु कार्य स्वाद्वम्लतिक्तकः ॥ २७॥ त्रिचतुःपञ्चसंसर्गानेवमेव विकल्पयेत् । युक्तिः सैषातिसारोक्ता सर्वरोगेष्वपि स्मृता ॥२८॥ गाधरः-कफेनेत्यादि। कफेन संसृष्टे विषि पुरीषे पिचे वा ( अस्र था) तथा विपित्तशोणितः संसृष्टे कफे व्योषादिकृतो वस्तिरुत्तमः॥२५॥ गङ्गाधरः-स्यादित्यादि। वायुना संसृष्टे कफे व्योषतिक्ताम्लकतो बस्तिरुत्तमः स्यात् । कफयुक्त रक्त मधुरादिवस्तिः ॥२६॥ गङ्गाधरः-मारुत इत्यादि। कफयुक्ते मारुते व्योषाम्लकृतकाथो लवणयुको वस्तिर्भवेत् । वातेन संसृष्टे रक्त वाद्वम्लतिक्तकृतकाथो वस्तिः कार्यः ॥२७॥ गङ्गाधरः-द्विसंसर्गमुक्त्वा शेषसंसर्गानाह-त्रीत्यादि। आमादीनां षण्णां त्रिसंसग चतुःसंसर्ग पञ्चसंसगै षट्संसर्गे चवमेतत्मकारं प्रकल्पयेत् । तद यथा। त्रिका दश। चतुष्काः षट्। पञ्चकास्त्रयः। षटक एक इति विशतिः। तद यथा-आमविडवावजः। आमविडसृगजः। आमविपित्तजः । आमविटकफजः। विडवातासगजः। विड्वातपित्तजः। विडवातकफनः। वातासपित्तजः। वातासक्कफजः। असपित्तकफनः। इति त्रिका दर्श। आमविड्वातासगजः। आमविड्वातपित्तजः। आमविवातकफजः। विड. पातासपिसजः। विनातामुक्कफजः। वातापित्तकफजः । इति चतुष्काः एवं पित्तशाकृतोः रक्तपित्तयोश्च द्विविधः संसर्गो व्याख्येयः। विपित्तशोणितैरिति प्रत्येक विड़ादिभिः कफ संसृष्टे । कफविमूर्छित इति कफेनाऽप्रधानेन संसृष्ट इत्यर्थः ॥२२-२७॥ चक्रपाणि:-अनुक्कससर्गचिकित्सा सूखयशाह-त्रिचतुरिस्यादि-विचतुःपञ्चसंसर्गानिति आमादीनां विधतुःपञ्चसंसर्गरूपान् संसर्गान् । एवमेव विकल्पयेदिति प्रधानादिमलकेन विकल्पयेत्, तथा भेषजमपि तेषां यथोक्तभेषजानुसारेण कल्पयेदित्यर्थः। एतें भेदा लिख्यमाना For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy