SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य भध्यायः चिकित्सितस्थानम्। नराश्चटकवत् केचिद व्रजन्ति बहुशः स्त्रियम् । गजवच्च प्रसिञ्चन्ति केचिन्न बहुगामिनः॥ कामयोगबलाः केचित् केचिदभ्यसनध्रुवाः । केचित् प्रयत्नैर्वाह्यन्तै वृषाः केचित् स्वभावतः॥ तस्मात् प्रयोगान् वक्ष्यामो दुर्बलानां बलप्रदान् । सुखोपभोगान् बलिनां भूयश्च बलवर्द्धनान् ॥ ३॥ पूर्व शुद्धशरीराणां निरूहान् सानुवासनान् । बलावेक्षी प्रयुञ्जीत शुक्रापत्यादिवर्द्धनान् ॥ ४॥ प्रकृत्या स्वभावेन दुर्बलाः सन्ति, सन्ति चापरे पुरुषा नारीषु आमयदुर्बलाः व्याधितो मैथुने दुब्बेलाः। केचिच्च पुरुषाश्चटकवत् अचिराचलच्छका बहुशः पुनःपुनः स्त्रियं व्रनन्ति न चिरं स्तब्धशुक्रा न वा बहुशुक्रसेकिनः। अन्ये केचित्ररा गजवद् दृहमैथुना बहुशुक्राणि प्रसिञ्चन्ति न बहुगामिनो बहीः स्त्रियो गन्तुं न शीलवन्तो न वा पुनःपुनः स्त्रीगमनशीलवन्तः। केचित्रराः कामयोगवलाः यदा नानाप्रकारोद्दीपनहेभिः कन्दर्पयोगो भवति तदा तेन बलवन्तः स्युः। केचित्ररा अभ्यसनध्र वाः अभ्यासेन मैथुनसमर्थाः। अभ्यशनेति पाठे सम्यगाहारादिना बलपुष्टितो मथुनसमर्थाः भवन्ति । अव्यसनेति पाठे शोकादिव्यसनाभावे सति मैथुनसमर्थाः । केचिनराः प्रयत्न स्त्रीमुखचुम्बनालिङ्गनकुचमहेनशेफःसंस्पर्शनसंयोजनादिभिः प्रयत्नाद्यन्ते स्त्रीष कामोद्रेकतो मैथुनसामर्थ्य मिति शेषः। केचित् स्वभावतो वृषाः मैथुनसमर्थाः। न च कश्चिज्जातबलो यावदिच्छन् स्त्रियो व्रजेत् नापि चापत्यवान् स्यात्। तस्मात् स्त्रीषु मैथुने दुर्बलानां बलप्रदान सुखोपभोगान् स्त्रीषु मैथुने बलिनां भूयोबलवर्द्धनान् वाजीकरणयोगानुपदेक्ष्यामः इति ॥३॥ गङ्गाधरः-तत्रादौ कर्त्तव्यमाह-पूर्वमित्यादि। पूर्व वमनविरेचनाभ्यां शुद्धशरीराणां नराणां बलाक्षी भिषक् शुक्रापत्यविवर्द्धनान् शुक्रवर्द्धनद्रव्यनिम्मितान् अपत्यकरद्रव्यनिर्मितांश्च सानुवासनान निरूहान प्रयुञ्जीत ॥४॥ नारीषु बलवन्तो बहुप्रजा भवन्ति। गजवञ्च प्रसिञ्चन्तीति शुक्रं बहु विसृजन्ति। कालयोगेन हेमन्तादिकालसम्बन्धेन व्यवाये बलवन्तो भवन्तीति कालयोगबलाः। अभ्यसनध्र वा इति *कालयोगबलाः इति पाठान्तरम् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy