________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७०६
चरक-संहिता। (वमनविरेचनव्यापत्सिद्धिः आ लाघवादणुत्वाच्च कफस्याग्निकरं भवेत्। . वमिते वर्द्धिते वह्रौ शमं दोषा व्रजन्ति च ॥ .. वमितं लक्येत् सम्यग् जीणे लिङ्गानि लक्षयेत् । तानि दृष्टा च पेयादि-क्रमं कुर्य्यान्न लवनम् ॥ १३ ॥ संशोधनाभ्यां शुद्धस्य हृतदोषस्य देहिनः।
यात्यग्निर्मन्दतां तस्मात् क्रमं पेयादिमाचरेत् ॥१४॥ स्तमित्यादौ च वामयेत्, शेषमौषध न वामयेत् आ लाघवाद देहलाघव यावत् यावच्च कफस्याणुत्वं सूक्ष्मत्वं स्यात् तावद् वमनमग्निकरं भवेत्। वमिते नरे वह्नौ वद्धिते सति दोषाः शमं व्रजन्ति। वमितमित्यादि। सम्यगवमित नरं लवयेत् । औषधे जीर्णे तु लिङ्गानि लक्षयेत् । तानि जीर्णलक्षणानि दृष्ट्वा च पश्चात् तस्य बुभुक्षितस्य पेयादिक्रमं कुर्यात्, न लङ्घनं कुर्यात् ॥१३॥
गाधरः-कस्मात् पेयादिक्रमं कुर्यात् ? तत उच्यते-संशोधनाभ्यामित्यादि। संशोधनाभ्यां वमनविरेचनाभ्याम् ॥१४॥ पित्त अमुकफ दृश्यमाने अधो हृतदोष वदेदिति नियोजना। एतत् कफानुगत्वं विरेचनस्य, यमनस्य च पित्तान्तत्वं पूर्वमेव ब्याहृतम्। एतत् पित्तान्तस्वं कफान्तत्वं वा सकृच्छद ऽपि दोषस्य अननुपूर्ध्या भवस्थाना भवतीति कृत्वा एतयोः साहवरेंण कायदौर्बल्यं चेत् सलाघवमिति। विरेचनप्रयोगे सावशेषे सति कर्त्तव्यमाह- वामयेत् तु ततः शेषमौषधमिति । शुद्धिलक्षणे जाते शेषमौषधं विरेचनातियोगप्रतिषेधार्थ वामयेदित्यर्थः। न त्वलाघवे इत्यनेन काघवग्यतिरिक्तशेषशुद्धिलक्षणदर्शने सत्यपि न विरेचनशेषौषधवमिः कर्तव्या। . वमनौषधकर्तव्यमाह-स्तैमित्यमित्यादि। वमनौषधप्रयोगे यावत् स्तैमित्ये अनिलसङ्गे निरुद्वारे भेषजे सति धमनं कारयितव्यम् । एतत्वमनावधिमाह- आ लाघवादणुत्वाच्च कफस्येति। अतःपरं क्रियमाणस्य वमनस्य दोषमाह-अग्निकरं भवेदिति। इदमतियोगलक्षणम्। अन्ये तु स्तमित्यमित्यादिनापि विरेचनौषधस्यैव भावस्थिकं वमनमित्याहुः। यथोक्तवमनफलमाह-वमिते वर्दत इत्यादि। सम्यग्जीलिङ्गानि लक्षयन्निति संशोधनभेषजन्य वक्ष्यमाणसम्यगजीर्णलिङ्गानि लक्षयन् । तानीति जीणौषपलिङ्गानि ॥ १३ ॥
चक्रपाणिः-शुद्धस्य पेयादिक्रमोपपत्तिमाह-संशोधनाभ्यामिति । यद्यपि निरूदस्याप्यग्नि मान्य भवति, तथापि निरूतस्य तादृगग्निमान्य न भवति येन तस पेयादिक्रमो न क्रियते । तस्माविरूहम्युदासार्च संशोधनाभ्यामिति द्विवचनं कृतम्। या तु सम्यगविरिक्तलक्षणे अग्नि
For Private and Personal Use Only