________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६७८
घरक-संहिता। वस्तिसूत्रोममिदिर नाहमर्थोग्रहणीप्रदोषानेरण्डवस्तिः शमयेत् प्रयुक्तः । वैदेग्न सम्यक् कुशलेन चैष पुनर्वसूक्तः कृपया नराणाम् ॥२२॥ चतुष्पले तेलघृतस्य भृष्टश्छागाच्छताई दधिदाडिमाम्लः। रसः सपेष्यो बलवर्णमांस-रेतोऽग्निदश्चान्ध्यशिरोरुजानः ॥२३॥ जलद्विकंसेऽष्टपलं पलाशात् पक्त्वा रसोऽ ढकमात्रशेषः। कल्कर्बलामागधिकापलाभ्यां युक्तः शताहाद्विपलेन चापि ॥ ससन्धवः क्षौद्रयुतः सतैलो देयो निरूहो बलवर्णकारो। आनाहपाश्वामययोनिदोषान् गुल्मानुदावर्तरुजश्च हन्यात् ॥२४॥ यष्टाहमूलाष्टपलेन सिद्धं पयः शताहाफलपिप्पलीभिः।। युक्तं ससर्पिमधु वातरक्त-वैस्वयंवीसहितो निरूहः ॥ २५ ॥ तत् कर्षप्रमाणांशयुक्त मधुतलगोमूत्राणां युक्त्यानुरूप दत्त्वा मथिला वस्तिः कार्यः। एरण्डवस्तिः ॥२२॥
गङ्गाधरः-चतुष्पल इत्यादि। छागमांसाच्छतपलार्द्ध पश्चाशत्पलमष्टगुणजले पत्वा पादावशेषरसः दधिदाडिमरसाभ्यामम्लः कृतस्तलघृतस्य मिलि तस्य चतुष्पले सम्भृष्टः सपेष्यः सैन्धवमदनफलकल्कयुक्तः बलादिदः आन्ध्यादिनः ॥२३॥
गङ्गाधरः-जलेत्यादि। पलाशादष्टपलं जलस्य द्विकसे द्वादके पक्ताद्धा ढकमात्रावशेषो रसो बलापलमागधिकपलाभ्यां शताहाद्विपलेन च कल्कयुक्तः युक्त्या सन्धवक्षौद्रतलयुक्तः सिद्धो निरूहः बलवर्णकारी॥२४॥ ... . गङ्गाधरः-यष्टाहत्यादि। यष्टाहमूलस्याष्टपलं कल्कं चतुःषष्टिपले दुग्ने दत्त्वा चतुगुणजले पक्त्वा पादावशेष सिद्धं पक्वं पयः शताहामदनफलपिपलीभिः कल्वरनुरूपयुक्तं सर्पिमेधुयुक्तं वातरक्तादौ निरूहः ॥२५॥ स आढ़का, भागाक्षमात्रमिति भागेनाक्षमात्रम्। छागाच्छता इति पञ्चाशवपलो भवति । सपेष्य इति बलादिकस्य कल्कयुक्तः ॥ २२-२४ ॥
चक्रपाणिः-यध्यायस्येत्यादिकाश्चत्वारः पित्त । पूर्वन्तु पञ्च वाते। अन्न पयःसाधनं क्षीर.
For Private and Personal Use Only