SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७३ श्य अध्यायः] चिकित्सितस्थानम् । घृतक्षीराशनो निर्भीनिर्व्याधिनित्यगो युवा। संकल्पप्रवणो नित्यं नरः स्त्रीषु वृषायते ॥ ११ ॥ कृतैककृत्याः सिद्धार्था ये चान्योन्यानुवर्तिनः। कलाः सुवाह्या ये तुल्याः सत्त्वेन वयसा च ये॥ कुलमाहात्म्यदाक्षिण्य-शीलशौचसमन्विताः। ये कामनित्या ये हृष्टा ये विशोका गतव्यथाः॥ ये तुल्यशीला ये भक्ता ये प्रिया ये प्रियंवदाः। तैर्नरः सह विस्तब्धः सुवयस्यैर्वृषायते ॥ १२॥ की . गङ्गाधरः-घृतेत्यादि। घृतक्षीराभ्यां केवलाभ्यामशनशीलो यो युवा निभनिन्याधिश्व सङ्कल्पप्रवणः सततं मनसा रमणं संकल्पते यत् तद्रतिसंकल्पनं संकल्पोऽत्र प्रकरणात् स प्रवणो यस्य स संकल्पप्रवणः। स नरो नित्यं स्त्रीषु वृषायते वृष इव ताभिमैथुनमाचरति ॥११॥ ___ गङ्गाधरः-कृतकेत्यादि । तैः सुवयस्यैः सह विस्रब्धः सम्यग विश्वासालापामोदयुक्तो नरो वृषायते। ये सुवयस्याः कृतैककृत्याः कृतमेकम् एकविधं कृत्यं कम्म यैस्ते। ये च वयस्याः सिद्धार्थाः सिद्धाः सर्वेऽर्थाः प्रयोजनानि येषां ते। ये च वयस्या अन्योन्यानुवर्तिनः स्वयं तेष्वनुवर्ती स्वस्मिंश्च तेऽनुवर्त्तिन इति परस्परानुवर्तिनः, अनुवर्तित्वं तदभिमताचरणशीलखम् । कलाः सुवाह्याः, कामानां नानाविधकौतु कादिनानाकला यैर्वयस्यः सुवाह्याः सुवहनीयाः। ये च वयस्याः सत्त्वेन मनसा वयसा च तुल्याः। ये च वयस्याः तेषां स्वस्वकुलमाहात्म्यं दाक्षिण्यं दक्षिणाचारः कुशलाचरणस्वभावः, शीलं मुस्वभावः, शौचं शुचित्वं, तैः समन्विताः। ये च वयस्याः कामनित्याः कामुकाः। ये च हृष्टाः नित्यं हर्षयुक्ताः। ये च विशोका वयस्याः। ये च वयस्या गतव्यथा रोगादिदुःखरहिताः। ये च वयस्यास्तुल्यशीलाः स्वतुल्याचार चक्रपाणिः–कर्षमित्यादिकान्तपञ्चदशप्रयोगाः। 'घृतक्षीराशनः' इत्यादिना तु वृष्यस्वार्चिताहाराचाराभिधानम् । नित्यमित्यनेन ब्यावायनित्यतया शुक्रमार्गानवरोधेन व्यवायशक्ति दर्शयति । कृतमेकं कृत्यं यैस्ते तथा, एतच्च अन्योऽन्यार्थरागकारणम्। सिद्धार्था इति २९८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy