________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६५८
चरक-संहिता। [पञ्चकर्मीयसिद्धिः अर्शसस्याशांस्यभिष्यन्याध्मानं कुर्यात्, अरोचकार्तस्यान्नगद्धिं पुनर्हन्यात्, मन्दाग्निदुर्बलयोर्मन्दतरमग्निं कुर्यात्, प्रतिश्यायप्लीहादिमताञ्च भृशतरमुक्लिष्टदोषाणां भूय एव दोषं वर्द्धयेत् । तस्मादेते नानुवास्याः ॥ १६ ॥ .. य एवास्थाप्यास्त एवानुवास्याः, विशेषतस्तु रूक्षतीक्षणानयो येऽन्ये केवलवातरोगाश्चि। तेषु ह्यनुवासनं प्रधानतममित्युक्तं वनस्पतिमूलच्छेदवन्मूले द्रुमाणां प्रसेकवच्चेति ॥ १७॥
अशिरोविरेचनार्हास्तु पुनरजीणिभुक्तभक्तपीतस्नेहमयतोयपातुकामनातशिरस्नातुकामक्षुत्तृष्णा-श्रमालमत्तमूर्च्छित-शस्त्र- गङ्गाधरः-कस्मात् ? तदाह-तत्रेत्यादि। अभुक्तभक्तस्य शून्योदरत्वेनानादृतस्नेहगतिपथ इति। तस्मादेतेऽप्यनुवास्या न भवन्ति ॥१६॥ - गङ्गाधरः-अनुवास्यानाह-य एवेत्यादि। य एवास्थाप्या इहोक्तास्त एवानुवास्या भवन्ति। विशेषतस्तु रूक्षतीक्ष्णाग्नयः केवलवातरोगार्ताः अन्यरोगहीनशुद्धवातरोगार्ताश्च ये तेष्वेतेषु अनुवासनं प्रधानतमं भवति। कथम् ? वनस्पतिमूलच्छेदवत्, मूले द्रुमप्रसेकवच। मूले द्रमाणां जलोपसेके यथा नवपल्लवादुादगमादि स्यात्, तथा तेषां रोगाणां प्रशोषानवधातुपुष्टादि स्यात् ॥१७॥
गङ्गाधरः-अथ शिरोविरेचनानर्हानाह-अथ शिर इत्यादि । अजीणिभुक्तअनुवासनमभुक्तस्थानावृतत्वादूर्द याति, न तु निरूह इति को विशेषः १ बमः-अनुवासन स्नेहस्य च सूक्ष्मतया विसरणशीलतया सायञ्च दीयते। तेन तावत्कालमभोजनात् शून्यशरीरस्योद याति । भनुवासनञ्च "शूले च मक्तानभिनन्दने वा" इत्यनेन यद्यपि विहितम्, तथापीह भक्तानभिनन्दने स्वन्तर्भूतायामरुचौ तनिषेधो न विरुद्धः। अनभिनन्दनन्त्वनद्धामात्र वातकृतम्, अरुचिस्तु सर्वदा अनिच्छा, केवलवातरोगश्चाश्रद्धा। शुद्धवातरोगयुक्तोऽनुवासनाहः । अनुवासनप्राधान्यख्यापने वनस्पतिमूलोच्छेदनवदित्यनेन महारोगाध्यायोक्तवस्तिप्राधान्यख्यापनप्रन्थोपदर्शनम् । मूले द्र मप्रसेकवच्चे त्यनेन उपकल्पनीयोक्तम्-"मूले निषिक्तो हि यथा द्रमः स्यात्" इत्यादियथोक्तानुवासनप्राधान्यख्यापनग्रन्थग्रहणं करोति ॥ १४-१७॥.
पक्रपाणि:-अशिरोविरेचनाहोनाह-अशिरोविरेचनार्हा इत्यादि। पातुकामा इति स्नेहादि
For Private and Personal Use Only