SearchBrowseAboutContactDonate
Page Preview
Page 1419
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३६४८ www.kobatirth.org - Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | रोगास्तथान्येऽपि विवर्यमाणाः परस्परेणापि गृहीतमार्गाः । सन्दूषिता धातुभिरेव चान्यैः स्वभेषजैर्न प्रशमं व्रजन्ति ॥ ४१ ॥ सर्व्वाङ्ग - रोगप्रशमाय कर्म - 8 हीनातिमात्रं विपरीतकालम् । मिथ्योपचाराच्च न तं विकारं शान्तिं नयेत् पथ्यमपि प्रयुक्तम् ॥ ४२ ॥ तथान्येऽपि रोगाः परस्परेण गृहीतमार्गाः सन्तो वित्तर्यमाणाः स्युः । अन्यर्धातुभिश्च सन्दूषिता रोगाः स्वर्भेषजः प्रशमं न यान्ति ॥ ४० ॥ ४१ ॥ गङ्गाधरः - अपरञ्च - सर्व्वाङ्गरोगप्रशमाय विपरीतकालमयथाकाले हीनातिमात्र कम्मे मिथ्योपचारादययाथप्रयोगात् तं तं विकारं शान्ति न नयेत्, पथ्यमपि प्रयुक्त शान्तिं न नयेत् ॥ ४२ ॥ [ कल्पनासिद्धिः अत एव अबुधः इति कृतम् । अन्यखाप्युक्तम् - " कुपितो मार्गसंरोधान्मेदसो वा कफस्य वा । अतिवृद्धा निलो नादt at नेहेन वृंहणम्" इति । अवितर्क्यमाणा इति असम्यग्ज्ञायमानाः, असम्यग गज्ञायमानत्व एव हेतुमाह- परस्परेणेत्यादि । रोगशब्देनात्र दोषोऽभिप्रेतः । परस्परेण प्रतिबद्धमार्गा अतो दुहा भवन्ति, तथा धातुभिश्व रक्तादिभिश्व सन्दूषिताः सम्मूर्च्छिताः सन्ता दुइया भवन्ति, अविज्ञाताश्च स्व भैषजैर्न प्रशमं व्रजन्ति । स्वर्भेषजैरिति मार्गावराजादिकरणदोषधात्वन्तरनिरपेक्ष कैरेकदोषभेषजैः । तद्वि तथाभूतानां भेषजं यौगिकं न भवत्येव, अतोऽनुपशमो युक्त एव । एवञ्च दोषाणां परस्परावरोधान् तथा धातुसम्मूर्च्छनविशेषांश्चावगम्यैव व्याधौ प्रषवोऽनुसरणीयः ॥ ४० ॥ ४१ ॥ चक्रपाणिः - अथ विज्ञातेऽपि बाधौ भिषजाऽसम्यक प्रयोगादिभिर्वर्द्धमानेऽसिद्धिमाहयादि । विपरीतकालमिति अनुचित कालकृतम् । मिथ्योपचाराच्चेति भेषजानां तथाऽकरणात् । यथा – भेषजस्य सम्यकपरिणामे सति भोक्तव्यम् । यद् यौगिकं भेषजम्, तत् सम्यक प्रयुक्तं सिध्यतीति सिद्धान्तः ॥ ४२ ॥ सर्व्वचेति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy