SearchBrowseAboutContactDonate
Page Preview
Page 1412
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १मभध्यायः १म अध्यायः सिद्धिस्थानम्। ३६४१ सनाभिदेशं कटिपार्श्वकुक्षिं गत्वा शकदोषचयं निरस्य। सडिदाप्तवेगः सपुरोषदोषः सम्यक सुखेनैति च यश्च वस्तिः॥ प्रसृष्टविगमूत्रसमीरणत्वं रुच्यग्निवृद्धयाशयलाघवादि। रोगोपशान्तिः प्रकृतिस्थता च बलं ततः स्यात् सुनिरूढलिङ्गम् ॥२४ स्यात् हच्छिरोरुगगुदकुतिलिङ्कवतिः प्रतिश्यायविकर्तिके च। हृल्लासकासारुचिमूत्रसङ्गःश्वासो न सम्यक् च निरूहिते स्यात् ॥२५ लिङ्गं यदेवातिविरेचितस्य भवेत् तदेवातिनिरूहितस्य ॥ २६ ॥ प्रत्येत्यसक्तं सशकुच्च तैलं रक्तादि-छ-बुद्धीन्द्रियसंप्रसादः। +खप्नोऽतिदृष्टिलघुता बलञ्च सृष्टाश्च वेगाः स्वनुवासिते स्युः॥२७ - गङ्गाधरः-सेन्यादि सम्यनिरूढलक्षणम्। यश्च प्रणिहितो वस्तिः सनाभिदेशं नाभिदेशसहितं सुग्वेन पुनरेति तत् सुनिरूढलिङ्गम् ॥ २४ ॥ गङ्गाधरः-असम्यढिलक्षणमाह-स्याद्धदित्यादि। विकत्तिका कत्तनवत् पीड़ा। न सम्यङ निरूढ़िते असम्यङ निरूढ़िते लिङ्गम् ॥२५॥ गङ्गाधरः-अतिनिरूढलक्षणमाह-लिङ्ग यदेवेत्यादि ॥२६॥ गङ्गाधरः-इत्यतिनिरूढलक्षणमुक्त्वा सम्यगनुवासनलक्षणमाह-प्रत्येतीत्यादि। तळ यदनुवासने दत्त तलं तत् सशकदसक्तमलग्नं प्रत्येति। खनुवासिते सम्यगनुवासिते ॥२७॥ संस्नेह्य कायमिति वीर्यरूपेण सारेग कायं व्याप्य। उक्त हि-"वीय्यण वस्तिरादत्ते दोषा. नापादमस्तकात्" इति। स्नेहशब्देन च सारोऽभिधीयते। यथा-"देहः स्नेहपरिक्षयात्" इति। सम्यगिति निरवशेषेग। सुखेनेति विकारमकृत्वा। तादात्विकवस्तिसस्यगयोगलक्षणमभिधायोत्तरकालभवभावमाह-प्रसृष्टेत्यादि। आशयलाघव.नीत्यत आमयलाघवानीति पाठे रोगोपशान्तिरित्मनन्तरं वाशब्दो ज्ञेयः, तेन रोगोपशान्तिरिह निरूहसाध्यविकाराणामुप. शान्तिः ॥ २२-२४॥ चक्रपाणिः-स्यादित्यादि वस्त्ययोगलक्षणम् । न सम्यक् निरूहिते इस्ययोगेन निरूहिते। वस्यतियोगलक्षणमतिदेशेनाह-लिङ्गमित्यादि । अनुवासनसम्यगयोगलक्षणमाह-प्रत्येतीत्यादि। • वकाति इति कचित् पाठः। + स्वप्नानुवृत्तिरिति चक्रसम्मतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy