SearchBrowseAboutContactDonate
Page Preview
Page 1397
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६२६ चरक-संहिता। कल्पनासिद्धिः साध्या गदाः स्वैः शमनैश्च केचित् कस्मात् प्रयुक्तैर्न शमं व्रजन्ति। प्रचोदितः शिष्यवरेण तस्मै पुनर्वसुस्तत्वविदेतदाह ॥ २॥ त्राहावरं सप्तदिनात् परन्तु स्निग्धो नरः रवेदयितव्य उक्तः। नातः परं स्नेहनमादिन्ति सात्म्यीभवेत् सप्तदिनात् परं हि ॥३॥ व्याख्येयम् । अत्रादौ प्रश्नानाह-का कल्पनेत्यादि। का कल्पनेत्यादिका द्वादश प्रश्नाः। शिष्यवरेणेत्यग्निवेशेन। पञ्चसु कम्मसु का कल्पनतिप्रश्नस्योत्तरमाहग्रहावरमित्यादि। स्नेहाध्याये प्रागुक्तम्-मृदुकोष्ठस्विरात्रेण स्निह्यत्यच्छोपसेवया। स्निह्यति क्रूरकोष्ठस्तु सप्तरात्रेण मानव इति ग्रहमवरस्नेहनकालः सप्तदिन श्रेष्ठकालस्ततः परं स्वेदयितव्य इत्युक्तं यत्-अतः सप्ताहात् पर यत् स्नेहनं नादिशन्ति तत्र कारणं सप्तदिनात् परं स्नेहसेवन हि यस्मात् सात्म्यीभवेत् तस्मानातः परं स्नेहनमादिशन्ति ॥१-३॥ तया प्राधान्यादादौ कल्पनासोद्धरेवोज्यते। अत्र 'का कल्पना' इत्यादीन शिष्यस्य द्वादश प्रभानभिनिवेश्य तान् यथाक्रमं व्याचष्टे प्रश्नानुगुणगुरुबुद्धिप्रकाशाम्। यदुक्तं भरद्वाजे"भप्रदृष्ट न मावेन प्रसन्नेनान्तरात्मना। शिष्येण सम्यक पृष्टस्य गुरोर्बुद्धिः प्रकाशत ॥” इति । भन्न का कल्पना कर्मसु पञ्चसूक्ता' इति प्रथमः प्रश्नः। 'क्रमश्च कः' इति द्वितीयः, 'किसा कृताकृतेषु लिङ्गं तथैवातिकृतेषु' इति तृतीयः, 'सङ्ख्या का' इति चतुर्थः, 'किंगुगो वस्तिः' इति पञ्चमः, 'केषु च कश्च वस्तिः' इति षष्ठः, 'किं वजनीयं प्रतिकर्मकाले' इति सप्तमः, 'कृते कियान् वा परिहारकालः' इत्यष्टमः, 'प्रणीयमानश्च न याति केन वस्तिः' इति नवमः, 'केनति शीघ्रम्', इति दशमः, 'सुचिराच केनैति' इत्येकादशः, 'साध्याः' इत्यादिको द्वादशः। साध्या इत्यादिप्रभस्य यद्यप्यवकाशो नास्ति, यतो हि नासाध्या गदाः प्रोक्तेन यथास्वं क्रियमाणेन भेषजन प्रशाम्यन्ति, तथाप्यसम्यगभेषज एव यथास्वं भेषजाभिधानादयं प्रभो बोद्धव्यः। कल्पनापन्देनेह पत्रकाङ्गकल्पनोच्यते, तेन पञ्चकम्माङ्गस्नेहस्वेदप्रयोगमेवाह ॥२॥ ..क्रपाणिः-बहावरमित्यादि प्रथमप्रश्नस्योत्तरम् । यहावरमिति सरहेण सरह वा व्याप्य क्रियमाणस्नेहनेन अवरं यथा भवतीति वाहावरं स्निग्धः। सप्तदिनमिति सप्तदिनं व्याप्य स्निग्धः। परमिति स्नेहप्रकर्षकालावधिना सप्तदिनं व्याप्य स्निग्धः। ततश्च कालोत्कर्षात क्रियमाणशोधनाङ्गस्नेहनपभे सप्तदिनं यावत् स्निग्धः, कालाप्रकर्षपक्षे तु वाहे स्निग्धः संस्वेदयिसव्य इत्यर्थः। अकसप्तदिनस्मेहनकालानतिक्रमं सोपपत्तिकमाह-नातः परमित्यादि। अता परमिति सप्तदिनात् परम् । कुतो नादिशन्तीत्याह-सात्म्यीभवेदित्यादि। सप्तविनात् परेम क्रियमाणस्नेहा साराक्षप्रयोगेण सात्म्यीभूतत्वान स्नेहनमधिकं शारीरे करोतीत्यर्थः, तेन थापामास For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy