SearchBrowseAboutContactDonate
Page Preview
Page 1382
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२श अध्यायः ] कल्पस्थानम् । देयन्त्वनिर्हृते पूर्व पोते पश्चात् पुनःपुनः । भेषजं वमनार्थाय प्राय या पित्तदर्शनात् ॥ ३३ ॥ बलं त्रैविध्य मालदय दोषाणामातुरस्य च । पुनः प्रदद्याद् भैषज्यं सर्व्वशो वा विवर्जयेत् ॥ ३४ ॥ निहतै वापि जीर्णे वा दोषानिर्हरणे ततः । भेषजेऽन्यत् प्रयुञ्जीत प्रार्थयन् सिद्धिमुत्तमाम् ॥ ३५ ॥ तीक्ष्णः, मध्यलक्षणो व्याधिर्मेध्यः, अल्पलक्षणो व्याधिमृदुरिति । तेषु तीक्ष्णादिषु व्याधिषु भिषक् तदातुरबलमवेक्ष्य तोक्ष्णादीनि भेषजानि क्रमात् प्रयोजयेत् ।। ३२ ।। तद् गङ्गाधरः - देयमित्यादि । पूर्व मनिह ते दोघे वमनभेषजं देयम्, पीते सति भेषजं पश्चात् पुनःपुनः वमनार्थाय पित्तदर्शनपर्यन्तं देयमिति । न तु सर्व्वा मात्रां पूर्व दद्यात् ॥ ३३ ॥ गङ्गाधरः - बलमित्यादि । दोषाणामातुरस्य च त्रिविधं बलमालक्ष्य पुनभैषज्यं प्रदद्याद, अथवा सव्वंशो विवर्जयेत् ॥ ३४ ॥ ३६११ गङ्गाधरः- निर्हृत इत्यादि । भेषजे निर्हेते पीतमात्रं वमनेन निर्गते सति भेषजे जीणं वा दोषानिईरणे उत्तमां सिद्धिं प्रार्थयन् अन्यद् भेषजं निहरणभेषजं प्रयुञ्जीत ॥ ३५ ॥ मध्यलक्षणो मध्यः अल्पलक्षणां मृदुर्व्याधिः । बलापेक्षीत्यनेन व्याधेस्तीक्ष्णत्वं यदि बलं महद् भवति तदैव तीक्ष्णशोधनं कर्त्तव्यमिति दर्शयति ॥ ३२ ॥ चक्रपाणि: - जमने क्रियमाणेऽवस्थाविशेषकर्त्तव्यमाह - देयमित्यादि । एवं पीते वमने सति भनिहृते दोषे सति पश्चात् पुनः पुनर्वमनार्थायेदं भेषजं देयम् । आ पित्तदर्शनादिति यावत् पित्तं न दृश्यते तावत् पुनः पुनर्वमनं देयम् । वमनं हि पित्तान्ततया सम्यग् युक्तं भवति । उक्तं हि - 'पित्तान्तमिष्टं वमने विरेकादर्द्धन्' इति ॥ ३३ ॥ For Private and Personal Use Only चक्रपाणिः - पुनः पुनभैषज्य प्रयोगस्यापवादविषय मुक्तिविषयञ्च दशयन्नाह - बलेत्यादि । बलवति दोषे पुरुषेऽपि पुनः प्रयोज्यं भैषज्यम्, हीनबले दोषे पुरुषे च सर्व्वशो वा भेषजं शोधनार्थं विवज्र्जयेत्, शोधनार्थं न कुर्य्यादित्यर्थः । वाशब्देन च मध्यमबले पुरुषे दोषे च न सर्व्वथा विवज्र्जनम्, एकवारप्रयोगं शोधनस्य दर्शयति ॥ ३४ ॥ चक्रपाणिः - निर्हत इत्यादि । दोषनिर्हरण इति दोषनिर्हरणकप्रयोजने भेषजे निर्हत इति दोषमनिहृत्यैव निर्गते । जीर्णे चेति जीर्ण इति येन वमनमधिकृत्यैतदुच्यते तेन वमनस्य पाकापेक्षयंवेति । । अन्यत् प्रयुञ्जीतेति वमनार्थभेषजपानानन्तरं तदहरेव दद्यात् ॥ ३५ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy