SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः] चिकित्सितस्थानम्। २३६७ एतैः प्रयोगैर्विविधैर्वपुष्मान् स्नेहोपपन्नो बलवर्णयुक्तः।। हर्षान्वितो वाजवदष्टवषं भवेत् समर्थश्च वराङ्गनासु ॥१०॥ यद् यच्च किञ्चिन्मनसः प्रियं स्याद रम्या वनान्ताः पुलिनानि शैलाः । इष्टाः स्त्रियो भूषणगन्धमाल्यं प्रिया वयस्याश्च तदत्र योग्यम् ॥ ११ ॥ इत्यग्निवेशकूते तन्त्रे चरकप्रतिसंस्कृते चिकित्सितस्थाने द्वितीयाध्याय आसिक्तक्षीरीयो नाम वाजीकरण पादो द्वितीयः ॥ २॥ येऽष्टौ योगा उक्ताः तेष्टौ योगा अपत्यकामैः प्रयोज्याः। फलान्तरमाह-एतैरित्यादि । अष्टवर्षम् इत्यष्टवत्सरं व्याप्यास्यौषधस्य वीर्यसद्भावाद वराङ्गनासु समर्थों भवेदित्यर्थः ॥१०॥ .. गङ्गाधरः-अनुक्तवाजीकरणमुपसंहरति —यद यच्चेत्यादि। वनान्ता रम्या लिङ्गविपरिणामात् पुलिनानि रम्याणि शैलाश्च रम्याः। इष्टा मनोऽभीष्टाः त्रियो भूषणगन्धमाल्यञ्चेष्टमिति लिङ्गविपरिणामेन योज्यं, वयस्याः सखायश्च मिया एव, नव प्रिया अत्र योग्यमित्यनेन स्वातन्त्र्येणेषां वाजीकरण किन्तु वृषाय हितबमात्रमिति ख्यापितम्। सुश्रुतेऽप्युक्तम्-भोजनानि विचित्राणि पानानि विविधानि च। वाचः श्रोत्रानुगामिन्यर त्वचः स्पर्शसुखास्तथा। यामिनी सेन्दुतिलका कामिनी नवयौवना। गीतं श्रोत्रमनोहारि ताम्बलं मदिराः सजः। मनसश्चाप्रतीघातो वाजीकुर्वन्ति मानवम् ॥” इति ॥११॥ - गङ्गाधरः-पादं समापयति-इतीत्यादि। इति वैद्यश्रीगङ्गाधरकविराजकविरत्नविरचिते चरकजल्पकल्पतरौ चिकित्सित स्थाने आसिक्तक्षीरीयवाजीकरणपादो द्वितीयः ॥२॥ चक्रपाणिः-चन्द्रांशुकल्पमिति अत्यर्थशुक्लम् । पौरुषार्थिभिरिति शुक्रार्थिभिः। अत योग्यमिति वृष्यप्रयोगसमर्शम् ॥ ८-११॥ इति महामहोपाध्यायचरकचतुरानन-श्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां बरकतात्पर्यटीकायां चिकित्सितस्थानव्याख्यायां वाजीकरणाध्यायव्याख्यायाम् आसिक्तक्षीरीकवाजीकरणपादव्याख्या ॥२॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy