________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चरक संहिता |
1
Acharya Shri Kailassagarsuri Gyanmandir
३६०४
[ दन्तोद्रवन्तोकरूपः
तथा दन्तीद्रवन्त्योश्च कषाये साजगन्धयोः । गौडः कार्य्योऽजशृङ्गा वा रसैः सुखविरेचनम् ॥ १७ ॥ तच्चूर्णक्काथमाषाम्बु- किण्वतोयसुरोद्भवा । मदिरा कफगुल्माल्प-वहिपार्श्व कटीग्रहे ॥ १८ ॥ अजगन्धाकषायेण सौवीरकतुषोदके ।
सुराकम्पिल्लके योगो लोभवच्च तयोः स्मृतः ॥ १६ ॥
काले जात एवारिष्ट इत्येकः । तथेत्यादि । अजगन्धा यमानी, तस्था मूलेन सहितयोर्दन्तीद्रवन्तीमूलयोः कषाये गौड़ो रसोऽर्द्धावर्त्तितगुड़ एकीकृत्य भाजने स्थाप्य, काले जातोऽरिष्टः काय्य इत्येकः । अजभृङ्गा वेति । अजभृङ्गी विषाणिका तस्या रसैः कार्थर्वा दन्तीद्रवन्त्योः कषाये गौड़ो रसो भाजने स्थाप्यः, काले जातोऽरिष्टः कार्यः । इत्येकः ॥ १७ ॥
गङ्गाधरः- तच्चूर्णेत्यादि । दन्तीद्रवन्तीमूलस्य चूर्णः काथः माषकलायकाथः किण्वस्य सुरकिट्टस्य तोयं जलं सुरा घेति सर्व्वं भाजने स्थाप्यम्, काले जाता मदिरा कफगुल्मादिषु हिता । इत्येकः ॥ १८ ॥
गङ्गाधरः- अजगन्धेत्यादि । अजगन्धा यमानी तस्या मूलकषायेण दन्तीद्रवन्त्यो लकलक कुट्टितनिस्तुषयवतुल्यं मेलयिता स्थापयेत्, काले जात सौवीरकं स्यादित्येकः । अजगन्धाकषायेण यमानीमूलकषायेण दन्तीद्रवन्त्योर्मूलकल्कं सतुपकुट्टितयवतुल्यमेकीकृत्य भाजने स्थापयेत्, काळ जातं तुषोदकं स्यादित्येकः । सुरेत्यादि । लोध्रकल्पवच्च सुरायोगः कम्पिल्लकयोगः काय्यैः । तद्यथा । तयोर्दन्तीद्रवन्त्योः शुष्कं चर्ण कृला सुरामंण्डेन संयोज्य पाणितलं पिबेदिति सुरायोग एकः । अथ कम्पिल्लकयोगः । दन्तीक्वाथः कर्त्तव्यः । दन्तीकल्क मित्यादिकोऽष्टमः । श्यामेत्यादिको नवमः । गौड़ इति गुड़प्रकृतिकः । लिप्त इत्यस घट इति शेषः । तथा दन्तीद्रवन्त्योश्चेत्यादिको दशमः । तथेत्यनेन पूर्वयोगोक• पिप्पल्यादिघटावलेप अतिदिश्यते । अजशृङ्गया वेत्यादिक एकादश । तथा अजङ्गा वा दन्तीद्रवन्स्योः कषाये गौड़ोऽरिष्टः कार्य्यं इति सम्बन्धः ॥ १५–१७ ॥
चक्रपाणिः - तच्चूत्यादिको द्वादशः । अल तयोर्दन्तीद्रवन्त्योश्चूर्णक्काथाभ्यां तथा माषाम्बुना किण्वकरणपूर्वकं या सुरा कृता तत्सुरोजवा मंदिरा कर्त्तव्येति वाक्यार्थः । अजगन्धेत्यादिना अपरं योगद्वयमाह - लोध्रवच्च तयोरिति 1 यथा लोध्रकल्पेषु सुरालोधकषायेण इत्यादिना
For Private and Personal Use Only