SearchBrowseAboutContactDonate
Page Preview
Page 1318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३य अध्यायः ] कल्पस्थानम् । गुल्मे मेहे प्रसेके च कल्पं मांसरसे पिबेत् । नरः साधु वमत्येवं न च दौर्बल्यमश्नुते ॥ १५ ॥ तत्र श्लोकाः । पयस्यष्टौ सुरामण्ड-मस्तुतकेषु च त्रयः । यं सपललं तलं वर्द्धमानासवेषु षट् ॥ घृतमेकं कषायेषु नवान्ये मधुकादिषु । अष्टौ वर्त्तिक्रिया लेहाः पञ्च पक्करसस्तथा ॥ योगा इचाकुकरूपेऽस्मिन् चत्वारिंशच्च पञ्च च । उक्ता महर्षिणा सम्यक् प्रजानां हितकाम्यया ॥ १६ ॥ इत्यग्निवेशकृतै तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः ॥ ३ ॥ Acharya Shri Kailassagarsuri Gyanmandir गङ्गाधरः - शक्तुभिरित्यादि । पकरसतुम्बीखरसेन भावितः शक्तभिमन्थ पिवेदवेत्येक इति पञ्चचत्वारिंशद् योगा इक्ष्वाकुषु । एतन्मन्धस्य सेगभेदे प्रयोगमाह -कफजे खित्यादि । मांसरसे कल्पमिममिक्षाकुकं पिबेत् । व्याधिभेदे पानान्नातिरिक्तम् || १५ ॥ गङ्गाधरः- अत्र संग्रह श्लोकाः । तत्र श्लोका इति । पकरस इति मन्थ इत्यर्थः ॥ १६ गङ्गाधरः- अध्याय समापयति--अग्नीत्यादि । फळेष्विति चक्रधुतः पाठः । ३५४७ अग्निवेशकृते तन्त्रं चरकप्रतिसंस्कृते । अमाप्ते तु दृढ़बल - प्रतिसंस्कृत एव च । कल्पस्थाने किलेक्ष्वाकु-कल्पेऽध्याये तृतीयके । वैद्यगङ्गाधरकृते जल्पकल्पतरौ पुनः । कल्पस्थाने सप्तमे तु स्कन्धेऽध्याये तृतीयके । इक्ष्वाकुकल्पजल्पाख्या शाखा तृतीयिका मता ॥ ३ ॥ चक्रपाणिः - शक्तुभिरित्यादिनेको मन्थयोगः । गुल्मे ज्वरे इत्यादिना रसैकयोगमाह । एक मिक्ष्वाकुवीज कल्कम् । पयस्यष्टावित्यादिसंग्रहार्थो व्याकृत एव । अव फलेष्विति मदनफलादिविति । घृतं यद्यपि वर्द्धमानपूर्वपठितम्, तथापि छन्दोऽनुरोधादिह पश्चात् पठितम् ॥१५/१६ इति महामहोपाध्याय चरकचतुराननश्रीमच्चक्रपाणिदत्तविरचितायामायुर्वेददीपिकायां चरक तात्पर्यटीकायां कल्पस्थानव्याख्यायां इक्ष्वाकुकल्पो नाम तृतीयोऽध्यायः ॥ ३ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy