SearchBrowseAboutContactDonate
Page Preview
Page 1312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्य अध्यायः] कल्पस्थानम्। ३५४१ तथा जोमूतकक्षीरात् समुत्पन्नं पचेद् घृतम् । फलादोनां कषायेण श्रेष्ठन्तु वमनं स्मृतम् ॥ ६ ॥ तत्र श्लोको। षट् क्षीरे मदिरामण्डे एको द्वादश चापरे। सप्त चारग्बधादीनां कषायेऽष्टौ च वर्तिषु ॥ जीवकादिषु चत्वारो घृतञ्चैक प्रकीर्तितम् । कल्पे जीमूतकानाञ्च त्रिंशद्धयोगा नवाधिकाः ॥७॥ इत्यग्निवेशकृते तन्त्रे चरकप्रतिसंस्कृते कल्पस्थाने __ जीमूतकल्पो नाम द्वितीयोऽध्यायः॥२॥ फलं कल्कीकृत्य जीवकादीनां चतुर्णामन्यतमस्य रसेन वमनार्थ पित्तश्लेष्म. ज्वरादौ दद्यात् । इति जीवकादिषु चखारो योगाः ॥५॥ गङ्गाधरः-तथेत्यादिना घृतमाह। जीमूतकफलैः सिद्ध क्षीरं मथिला समुत्पन्नं नवनीतं घृतं फलादीनां मदनफलकोविदारादोनां यथायोगं कषायेण चतुर्गुणेन पचेत् । इत्येकयोगः। इत्येकोनचत्वारिंशद्योगा जोमूतस्य व्याख्याता उपसंहियन्ते ॥६॥ गङ्गाधरः-तत्र श्लोकाविति । क्षोरे षड़ योगाः मदिरामण्डे त्वेकः अपरे द्वादश सप्त चारग्वधादिभिः वर्तिष्वष्टौ जीवकादिषु चखार एक घृतमिति जीमूतकल्पेऽस्मिन् नवाधिकास्त्रिंशदयोगा व्याख्याता इति ॥७॥ गङ्गाधरः-अध्यायं समापयति-अग्नीत्यादि। अग्निवेशकते तन्त्रे चरकप्रतिसंस्कृते। अमाप्ते तु दृदबल-प्रतिसंस्कृत एव च । कल्पस्थाने तु जीमूत-कल्पेऽध्याये द्वितीयके। वैद्यगङ्गाधरकृत जल्पकल्प- . तरौ पुनः। कल्पस्थाने सप्तमेऽस्मिन् स्कन्धेऽध्याये द्वितीयके। . जीमृतकल्पजल्पाख्या शाखा द्वितीयकरिता ॥२॥ चक्रपाणिः-जीवकेत्यादिना चतुरो योगाः पानसाधनकषायभेदात्। तथेत्यादिना घृतयोग. मेकमाह। षट्क्षीर इत्यादिना संग्रहार्थो व्याकृत एव यथास्थानम् ॥ ५-७ ॥ इति महामहोपाध्यायश्चरकचतुरानन-श्रीमचक्रपाणिदसविरचितायामायुर्वेददीपिकायां घरकतात्पर्यटीकायां कल्पस्थानन्याख्यायां जीमूतककल्पो नाम द्वितीयोऽध्यायः॥२॥ ४४४ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy