________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५३० चरक-संहिता।
[ मदनकल्पः ओं ब्रह्मदक्षाविरुद्रेन्द्र-भूचन्द्रार्कानिलानलाः । ऋषयः सौषधग्रामा भूतसङ्घाश्च पान्तु ते ॥ रसायनमिवर्षीणां देवानाममृतं यथा।
सुधेवोत्तमनागानां भैषज्यमिदमस्तु ते॥ इत्येवमभिमन्ता भिषगुदङ्मुखः प्राङ्मुखं पाययेत्। श्लेष्मज्वरगुल्मप्रतिश्यायात विशेषेण पुनःपुनः आ पित्तागमात्, तेन साधु वमतीति ॥ १३॥
हीनवेगन्तु पिप्पल्यामलकवचासर्षपकल्कलवणोष्णोदकैः पुनःपुनः प्रवर्तयेदा पित्तदर्शनादिति । एष सर्वच्छईनीययोगविधिः। सर्वेषु मधुसैन्धवं कफविलयनच्छेदनार्थ वमनेषु विदध्यात्। न चोष्णविरोधो मधुनश्छईनयोगयुक्तस्यापक्कप्रत्यागमनाद् दोषनिहरणाच्चेति ॥ १४ ॥ पूर्ण शरावं मन्त्रेण वक्ष्यमाणेनात्रैवाभिमन्त्रयेत्। मत्रमाह-ओमित्यादि। ब्रक्षदक्षाधीत्यादि अस्तु ते इत्यन्तेन मन्त्रेणाभिमन्त्रा प्राङमुखमातुरमुदङमुखो वैद्यः पाययेत् तत् पूर्ण शरावमौषधम् । श्लेष्मज्वराद्या विशेषेण पुन:पुनरा पित्तागमनात् । तेन साधु वमतीति ॥१३॥ __ गङ्गाधरः-यदि तेनौषधेनाल्पवेगः स्यात् तत्राह-हीनेत्यादि। पीतवमनौषधं पुरुषं हीनवेगं पिप्पल्यादिमिश्रितोष्णजलैः पीतैः पीतः पुनःपुनरा पित्तदर्शनात् प्रवर्तयेत्। इत्येष सर्वच्छईनीययोगविधिः। सर्वेषु वमनेष योगेष कफस्य विलयनाथ छेदार्थश्च मधुसैन्धवं विदध्यात्। ननु मधु रातिमुषितं पर्युषितमिति शृतकषायात् कषायान्तरोपदर्शनं पक्षान्तरम्, किंवा कषायपान एवं शीतकषायविधानमिहोच्यते। पूर्ण शरावमिति मङ्गलार्थ पूर्णकुम्भवत् । पुनःपुनरिति यावत् पित्तागमनं न भवति, तावत् पुनःपुनः कषायं पिबेदित्यर्थः , अन्यत्राप्युक्तम्-"पित्तान्तमिष्ट' वमनं विरेकादम्" इत्यादि ॥ १३ ॥
चक्रपाणि:-वमनाऽयोगकारकहीनवेगप्रवृत्तिप्रतिकारार्थमाह-हीनवेगमित्यादि। यद्यपि शोष्णत्वाद् वमनयोगेषु मधुसैन्धवयोगो न भवति, तथापि सर्वेषु' इति पदं बाहुल्यार्थ्यम्, वमनार्थकषाये उष्णे मधु प्रक्षेपविरोधित्वान युज्यते, उक्त हि-"मणमुष्णामवा" इत्यादि। एक
For Private and Personal Use Only