SearchBrowseAboutContactDonate
Page Preview
Page 1297
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५२६ चरक-संहिता। [मदनकल्पः तत्र देशे जाङ्गले साधारणे वा यथाकालं शिशिरातपपवनसलिलसेविते शुचौ प्रदक्षिणे श्मशानचैत्यदेवायतनागारसभाश्वभ्ररोमवल्मीकोषरविरहित कुशरोहिषास्तीर्ण स्निग्धकृष्णमधुरमृत्तिके सुवर्णवर्णमृत्तिके वा मृदावफालकृष्टऽनुपहतेऽन्यैर्बलवत्तरमरौषधानि जातानि प्रशस्यन्ते ॥१०॥ तत्र यानि कालजानि पर्यागतसम्पूर्णप्रमाणरसवीर्यगन्धानि कालातपाग्निसलिलपवनजन्तुभिरनुपहत-गन्धरसस्पर्शवर्ण-प्रभावाणि प्रत्ययाणि *, तेषां शाखापलाशमचिरप्ररूढ़ वर्षावसन्तयोाह्य ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढ़पानां शरदि त्वकन्दक्षीराणि हेमन्तै साराणि पर्णपुष्पफलमिति । गङ्गाधरः-तत्रेत्यादि। तेषु मध्ये जाङ्गले साधारणे वा देशे यथाकालं शिशिरादिसेविते शुचौ प्रदक्षिणेऽनुकूले श्मशानादिविरहिते कुशाद्यास्तीर्ण. स्निग्धादिमृत्तिके सुवर्णवर्णमृत्तिके वा मृदावफालकृष्टेऽन्यैर्बलवत्तर, मैरनुपहते स्थाने जातान्योषधानि प्रशस्यन्ते ॥१०॥ गङ्गाधरः-तत्रेत्यादि। तत्र यानि कालजानि यानि पर्यागतसम्पूण. प्रमाणादीनि तेषां शाखापलाशमचिरमरूढं वर्षावसन्तयोाह्य ग्रीष्मे मूलानि शिशिरे वा शीर्णप्ररूढपर्णानां मूलानि। शरदि लगादीनि। हेपन्ते वैस्तु जनपदोद्ध्वंसनीयजाङ्गलादिलक्षणं न पठ्यते, तैरख पठनीय एवायं ग्रन्थः । यथाकालमिति पथाकालं शिशिरादिभिः सेविते देशे, श्मशानादिभिः प्रत्येकं विरहितशब्दः सम्बध्यते, सभा जनमेलकस्थानम्, न फालेन कृष्ट इत्यफालकृष्ट ॥६-१०॥ चक्रपाणिः-तत्र यानि कालजातानीत्यनेनव कालसम्पदुच्यते। कालजातानीति स्त्रकालभूतानि । उपागतसम्पूर्ण इत्यादिना प्रत्यप्राणि इत्यन्तेन गुणसम्पदुच्यते। प्रत्यप्राणीति सम्पूर्णगुणतया निष्पाणानि, तेषां शाखापलामित्यादिना कालसम्पदमुक्तां प्रपञ्चयति, शाखाग्रहणेनैव स्वगादीनामपि ग्रहणम् । शीर्णप्ररूढ़पर्णानामितिच्छेदः । ग्रीष्मे मूलानि शिशिरे चेति कथनेन यान्याग्नेयानि तेषां मूलानि ग्रीष्मे, यानि सौम्यानि तेषां मूलानि शिशिरे ग्राह्याणीति व्यवस्था सूचयति, उक्त * इतःपरम् 'उदीच्यां दिशि स्थितानि' इत्यधिकः पाठो बहुषु ग्रन्थेषु दृश्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy