SearchBrowseAboutContactDonate
Page Preview
Page 1294
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir म अध्यायः कल्पस्थानम् । ३५२३ तत्र फलजोमूतकेक्ष्वाकुधामार्गवकुटजकृतवेघनानाम,श्यामात्रिवृच्चतुरगुल-तिल्वक-महावृक्षसप्तला-शङ्खिनीदन्तीद्रवन्तोना नानाविधदेशकालसम्भव-खादुरसवोर्यविपाकप्रभावग्रहणानाम्, देहदोषप्रकृतिवयोबलाग्निभुक्तिसात्म्यरोगावस्थादीनां नानात्मकत्वाच्च विचित्रगन्धवर्णरसस्पर्शानामुपभोगसुखार्थमपरिप्लवनबाद वायोरग्निवाय्वात्मकद्रव्येण वमनम्। निम्नगलस्वभावात् सलिलस्य गुरुवात् पृथिव्याः सलिलपृथिव्यात्मकेन द्रव्येण विरेचनं भवति । उभयतश्चोभयगुणवादिति। यद् द्रव्यमग्निवायुसलिलपृथिव्यात्मकं तदुर्भाधोगमनप्रभावादुभयतोभागहरं तेन दोषसङ्घात उभयतश्च प्रवत्तेते। इति वमनविरेचनलक्षणोद्दशः संक्षेपेण वचनमिति ॥४॥ गङ्गाधरः-तत्रेत्यादि। तत्र वमनविरेचनद्रव्येषु मध्ये मदनफलादीनां पण्णां वमनद्रव्याणां श्यामादीनां नवानां विरेचनद्रव्याणां नानाविधदेशादिसम्भवात् स्वाद्वादिग्रहणानांदेहादिनानालाच विचित्रगन्धादीनामुपभोगसुखार्थम् यतः प्रभावस्यैवेह वमनकार्ये वावग्न्यात्मकगुणतया वाय्वन्यात्मकत्वं हेतुरुपदृश्यते, न तु वायवन्यात्मकत्वं स्वतन्त्रो वमनहेतुः, तथाहि सति यदन्यदपि वाय्वग्न्यात्मकम् ऊर्द्धभागदोष. हरत्बप्रभावरहितम्, तदपि वमनकरं स्यात्, यथा कटुकरसे द्रव्ये तत् स्यात्, तस्मात् प्रभावगुणतयैव हेतुवर्णनम्, एवं विरेचनद्रव्येऽपि पूर्वपक्षसिद्धान्तावनुसर्तव्यौ ॥३॥ ४॥ चक्रपाणिः-सम्प्रति कल्पस्थानस्य बक्तव्यतया षड़ विरेचनप्रयोगशतान्यनतिसंक्षेपविस्तरप्रयोगोपदर्शनपूर्वकं प्रतिजानीते-तत्र फलेत्यादिना 'षडविरेचनयोगशतानि व्याख्यास्यामः” इत्यनेन । तत्र कृतवेधनान्तानां विच्छेदपाठे वमनप्रयोगप्रयोज्यत्वम्, श्यामादीनां विरेचनप्रयोगप्रयोज्यत्वञ्च दर्शयति, असंव वमने विरेचने कैकेषान्तु पुनर्वस्तूनां मदनफलादीनां श्यामादीनाञ्च बहवः प्रयोगा अभिधीयन्ते, न पुनरेकैकमेव द्रव्यं वमनकारक विरेचनकारकम् , स्वल्पसंख्याप्रयोगेण ग्रहणसुखता वमनविरेचनयोगस्य भवति, कार्यञ्च सिध्यतीत्याशङ्कयाह-नानाविधे. त्यादि। यावद्रोगावस्थादिनानाप्रभाववत्त्वाचेति । अस्यार्थः-यस्मान्नानाविधदेशकालसम्भवाः नानाविधास्वादाः नानाविधवीर्याः नानाविधविपाकाः नानाविधप्रभावध मदनफलादिकाः मोषध्यः, तथा तत्संस्कारकाः कोविदारादिका ओषध्य उपलभ्यन्ते, पुरुषाश्च देहदोषप्रकृतिवयोबलाग्निभक्तिसारम्यरोगावस्थाभिन्ना नानाविधा दृश्यन्ते, तेन नैकद्रव्यं सर्वस्मिन् देहदोषादौ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy