SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरकसंहिता कल्पस्थानम्। प्रथमोऽध्यायः। अथातो मदनकल्पं व्याख्यास्यामः, इतिह स्माह भगवानात्रेयः॥१॥ गङ्गाधरः-अथ स्थानोद्देशक्रमात् चिकित्सितस्थानानन्तरं कल्पस्थानं व्याख्यातव्यम्। तत्राध्यायोद्देशानुक्रमात् प्रथमं मदनफलकल्पमाह-अथात इत्यादि। सर्व पूर्ववद व्याख्येयम् ॥१॥ चक्रपाणिः-चिकित्सितस्थाने तु तत्र तत्र विहितवमनविरेचनयोः प्रयोगान् विस्तरेणाभिधातु चिकित्साधिकृतयोगस्थानरूपकल्पस्थानमुच्यते। यद्यपि चिकित्सायां वस्तेरपि प्रतिपादितस्वात् वस्यभिधायकं सिद्रिस्थानमपि चिकित्साङ्गतयाभिधातव्यम्, तथापि पञ्चकर्मणामौत्सर्गिकप्रवृत्तौ वमनविरेचनपूर्विकैव वस्तिकर्मप्रवृत्तिर्भवतीति कृत्वा वमनविरेचनाभिधायकं कल्पस्थानमेव वस्त्यभिधायकसिद्धिस्थानादप्रेऽभिधीयते। वमनविरेचनानां कल्पस्तिष्ठत्यस्मिन्निति कल्पस्थानम् ; कल्पाभिधानेऽपि विरेचनस्यौत्सर्गिकप्रवृत्तौ वमनपूर्चिकैव प्रवृत्तिर्भवतीति विरेचनात् वमनस्य पूर्घत्वात् वमनकल्पा एवामेऽभिधातव्याः; वमनकल्पेष्वपि वमनद्रव्यश्रेष्ठत्वान्मदनफलस्यैवादौ कल्पोऽभिधीयते, श्रेष्ठत्वञ्च मदनफलस्य, “वमनद्रव्याणां मदनफलानि श्रेष्ठतमान्याचक्षतेऽनपायित्वात्" इत्यनेनाऽत्रव वक्ष्यति ॥१॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy