SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३५८ चरक-संहिता। (वाजीकरणपाद : तृप्तिं चटकमांसानां गवा योऽनुपिबेत् पयः। न तस्य लिङ्गशैथिल्यं स्यान्न शकलयो निशि ॥ १७॥ इति वृष्यमांसम् । माषयूषेण यो भुक्ता घृताढ्य षष्टिकौदनम् । पयः पिबति रात्रिं स कृत्स्ना जागर्ति वेगवान् ॥१८॥ न ना स्वपिति रात्रीषु निस्तब्धेन च शेफसा। तृप्तः कुक्कुटमांसानां भृष्टानां नक्ररेतसि ॥ १६ ॥ गङ्गाधरः-तृप्तिमित्यादि। चटकमांसानां न तु तेषां रसस्य । केवलं चटकमांसं पक्वान्न न भुक्त्वा तन्मांसमात्रमेव आतृप्तितो भुक्त्वा तदनु गव्यं पयो यो नरः पिबेत् तस्य निशि लिङ्गशैथिल्यं न स्यात् तावद्रात्रि व्याप्य लिङ्गमुद्गम्य वर्तते शुक्रक्षयश्च न स्यात् इत्यर्थः ॥ १७ ॥ , गङ्गाधरः-माषेष्यादि। यः पुमान् घृताढ्य पष्टिकोदनं माषयूषण भुक्त्वा तदनु पयः पिबति स कृत्स्नां रात्रि वेगवान् कामवेगवान सन् जागर्ति ॥१८॥ गङ्गाधरः-न नेत्यादि। नक्ररेतसि कुम्भीरशुक्रे भृष्टानां कुक्कुटमांसानां तृप्तो ना पुरुषः निस्तब्धेन शेफसा रात्रीषु न स्वपिति ॥१९॥ नित्यं स्तब्धेन इति वा पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy