SearchBrowseAboutContactDonate
Page Preview
Page 1280
Loading...
Download File
Download File
Page Text
________________ Acharya Shri ka Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org या ३० अध्यायः । चिकित्सितस्थानम् । ३५०६ आस्यादामाशयस्थांश्च रोगान् नस्तः शिरोगतान् । गुदात् पक्काशयस्थांश्च हन्त्याशु द्रवमौषधम् ॥ शरीरावयवोत्थेषु विसर्पपिडकादिषु ।। यथादोषं * प्रदेहादि शमनं स्याद् विशेषतः ॥ ११४ ॥ दिनातुरौषधव्याधि-जीर्णलिङ्गववेक्षणम् । कालं विद्याद दिनावेक्षं पूर्वाह्न वमनं यथा ॥ रोग्यवेक्षा यथा प्रातर्निरन्नो बलबान् पिबेत् । भेषजं लघुपथ्यादायक्तमयात् तु दुर्बलः॥ भैषजाकालो भुक्तादौ मध्ये पश्चान्मुहम्महुः । सामुद् भक्तसंयुक्तं ग्रासे ग्रासान्तरे दश ॥ गाधरः-आस्यादित्यादि। आस्यादास्यमारभ्यामाशयस्थान् रोगान् तथा नस्तः नासिकामारभ्य शिरोगतान् रोगानेवं गुदमारभ्य पकाशयस्थांश्च रोगान् द्रवमौषधमाशु हन्ति । शरीरेत्यादि । स्पष्टम् ॥११४ ॥ ___ गङ्गाधरः-दिनेत्यादि। चिकित्साक्रियाविधौ दिनाद्यवेक्षणं कालं षड़ विधं विद्यात्। तत्र दिनावेक्षं कालं पूर्वाह्न यथा वमनं विद्यात् । रोग्यवेक्षेत्यादि। रोग्यवेक्षा यथा बलवान् रोगी प्रातरेव निरन्न औषधं पिबेत्। दुर्बलो रोगी लघुपथ्यादैायुक्तं भेषजं पिबेदिति । औषधावेक्षणं कालमाह-भैषज्यकाल इत्यादि। एको भुक्तादौ भैषज्यकालः, द्वितीयो चक्रपाणिः-भत उदाहरणमाह-आस्यादित्यादि । भास्यादित्यादौ तृतीयास्थाने पञ्चमी। तेन भास्येन दत्तमौषधं धमनादामाशयस्थान् गदानाशुतरानिहन्ति । एवं नासिकया दत्तमौषधं शिरोगतान् निहन्ति। गुदेन दत्तमौषधं पक्काशयस्थान् निहन्ति । सम्यगयोगे देशापेक्षामाहशरीरावयवेष्वित्यादि । यथादेशमिति व्याधेदशे । प्रदेहादीति प्रदेहपरिषेकोपनाहनादि देशसामर्थ्यकालमपेक्ष्य देयमिति ॥ ११४ ॥ चक्रपाणिः-सोदाहरणं कालविभागपूर्वकमाह-दिनातुरेस्यादि। तत्र दिनापेक्षादिकालान् कमाइदाहरति । दिनापेक्षः रोग्यपेक्षेति रोगिणो विशेषेण बलवत्वमबलवत्वञ्चापेक्ष्य भवतीत्यर्थः । औषधमुपयुज्यापि उपेक्षणम् अभुजानः औषधम् । भैषज्यकाला इस्यादि । अत्र भुक्तादाविस्यनेन • यथादेशमित्यन्यः पाठः। ४४० For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy