SearchBrowseAboutContactDonate
Page Preview
Page 1267
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३४६६ Acharya Shri Kailassagarsuri Gyanmandir चरक संहिता | सनीलमथवा कृष्णमत्युष्णं पीतकं तथा । नितान्तरक्तं स्रवति मुहुर्मुहुरथार्त्तिमत् ॥ रागदाहतृषामोह ज्वरभ्रमसमायुतम् । श्रसृग्दरं पैत्तिकं तत् श्लष्मिकन्तु प्रवक्ष्यते ॥ ८१ ॥ गुर्वादिभिर्हेतुभिश्च पूर्व्ववत् कुपितः कफः । प्रदरं कुरुते तस्य लक्षणं तत्त्वतः शृणु ॥ ८२ ॥ पिच्छिलं पाण्डुवर्णञ्च गुरु स्निग्धञ्च शीतलम् । स्ववत्यक् श्लेष्मलञ्च तथा मन्दरुजाकरम् ॥ छर्दा रोचक हृल्लास-श्वासकास समायुतम् । त्रिलिङ्गसंयुतं विद्यान्नैकावस्थमसृग्दरम् ॥ ८३ ॥ ८४ ॥ नारी त्वतिपरिक्लिष्टा यदा प्रक्षीणशोणिता सर्व्वहेतु समाचारादतिवृद्धस्तदानिलः ॥ रक्तमार्गेण सृजति प्रत्यनीकबलं कफम् । दुर्गन्धं पिच्छिलं शीतं विदग्धः पित्ततेजसा । 1 [ योनिव्यापचिकित्सितम गङ्गाधरः- सनील मित्यादि । नितान्तं निरन्तरम् ॥ ८१ ॥ गङ्गाधरः - गुर्व्वादिभिरित्यादि आदिना शेषकारणानि द्रवादीनि । अत्रापि पूव्ववदिति रक्तं प्रमाणमुत्क्रम्येत्यादुक्तम् । पिच्छिल मित्यादिना लिङ्गम् । श्लेष्मलं श्लेष्मयुक्तमात्त्वम् । त्रिलिङ्गेत्यादि । नैकावस्थं नानारूपतयावतिष्ठते ॥ ८२-८४ ॥ गङ्गाधरः- नारीत्यादिना तस्य लक्षणम् । सच्च हेतूनां वातादीनां सव्वषां हेतूनां समाचारा अतिवृद्धोऽनिलः प्रत्यनीकवलं बलहानिकरं कर्फ रक्तमागण सृजति । कफं पुनर्दुगैन्धादिरूपम् । पित्ततेजसा विदधः For Private and Personal Use Only अमृक् प्रदीर्यते यस्मिन्निति असृगदर इत्येषा निरुक्तिरप्यस बोद्धव्या । नैकापमिति ज्ञानावस्थम् ॥ ७६-८४ ॥
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy