________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४८६ चरक-संहिता। [योनिब्यापचिकित्सितम्
सङ्कल्पप्रवणो नित्यं प्रियां वश्यामपि स्त्रियम्। न याति लिङ्गशैथिल्यात् कदाचिद् याति वा यदि ॥ श्वासार्त्तः खिन्नगात्रश्च मोघसङ्कल्पचेष्टितः। म्लानशिश्नश्च निर्वीर्य्यः स्यादेतत् क्लैव्यलक्षणम् ॥ सामान्यलक्षणं होतद् विस्तरेण प्रवक्ष्यते ॥ ६४ ॥ शीतरूक्षाल्पसंक्लिष्ट-विषमासात्म्यभोजनात् । शोकचिन्ताभयत्रासात् स्त्रीणाश्चातिनिषेवणात् ॥ अभिचारादविलम्भाद रसादोनाञ्च संक्षयात् । वातादीनाञ्च वैषम्याद विरुद्धाध्यशनात् श्रमात् ॥ नारीणामरसज्ञत्वात् पञ्चकर्मापचारतः। वीजोपघाताद् भवति पाण्डुवर्णः सुदुर्बलः॥ गङ्गाधरः-सङ्कल्पेत्यादि। सङ्कल्पः सततं मैथुनविषयेप्सा मनसः कम्म प्रवलं यस्य । तादृशोऽपि चामनोकामप्रियामवश्यां स्त्रियं नरो न याति । तत्र स्त्रियमपि प्रियां वश्यां मनोशां लिङ्गशैथिल्यात् न याति, यदि कदाचिद् याति तदा व्यवायश्रमात् श्वासातः खिन्नगात्रश्च सन् मोघसङ्कल्पचेष्टितः स्याद्रेतःसेकाभावेन सङ्कल्पश्चेष्टितश्च मोघो व्यर्थः स्यादिति म्लानशिश्नश्च सन् निर्वीर्यो निःशक्तिः स्यादेतत् क्लैब्यस्य सामान्यलक्षणं भाषितम्, विस्तरेण प्रत्येकेन पुनः शृणु लक्षणमिह वक्ष्यते ॥ ६४॥
गायरः-शीतेत्यादि। शीतरूक्षाणामल्पसंक्लिष्टानां विषमाणामसात्म्यानाश्च भोजनात्। अविस्रम्भः प्रकाशभावः, रहस्ये हि हौद्मो भवति । विरुद्धाशनादध्यशनात् पूर्व दिनाहाराजोणे भोजनादिति। श्रमादतिश्रमादिति। वीजोपघातादेतेभ्यो हेतुभ्यो वीजस्य शुक्रस्योपघातात् क्लैव्यं भवति तत्र पाण्डस्येति रसायनमिति अनुवर्तते। शुदैववेति एतैः शुद्धः। सङ्कल्पेत्यादौ लिङ्गशैथिल्यादिति लिङ्गापगमात् । मोघे सङ्कल्पचेष्टिते यस्य सः। तथा वायोः क्षयात् बीजक्षयानुपपत्तेः,
For Private and Personal Use Only