SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चरक-संहिता। [ योनिब्यापश्चिकित्सितम् ३४७२ उडम्बरशलाटूनां द्रोणमवद्रोणसंयुतम् । सपञ्चवल्ककुनक-मालतीनिम्बपल्लवम् ।। निशां स्थाप्य जले तस्मिंस्तैलप्रस्थं विपाचयेत् । लाक्षाधवपलाशत्वक- निर्यासः शाल्मलेन च ॥ पिष्टैः सिद्धन्तु तत्तैल-पिचुर्योनौ रुजापहः । सशर्करः कषायैश्च शीतैः कुर्चीत सेचनम् ॥ पिच्छिला विवृता काल-दुष्टा योनिश्च दारुणा। सप्ताहात् सिध्यति क्षिप्रमपत्यश्चापि विन्दति ॥ ३५ ॥ उडम्बरस्य दुग्धेन षट्कृत्वो भावितात् तिलात् । तैलं काथेन तास्वेव सिद्धं धाय॑ञ्च पूर्ववत् ॥ ३६ ॥ - गङ्गाधरः-उड़ म्बरेत्यादि । यशोड़ म्बरस्यामफलानि द्रोणसम्मितानि अनः द्रोणसंयुतं पञ्चवल्कलकुनकादिपत्रं मिलिखा द्रोणम्, सर्च द्रोणद्वयं कुट्टयिखा अपां द्रोणे निशां संस्थाप्य रसं निष्पीड्य गालयेत्, तेन रसेन लाक्षाधवखनियासपलाशबङ निर्यासशाल्मल निर्यासः पिष्टः कल्कैः सिद्धं तैलं यत् ततैलपिचुः तत्तैलार्दीकृततूलकपत्री योनी धाऱ्या, ततः पर उडू म्बरादीनां निम्बपल्लवान्तानां कषायैः शीतैः सशर्करैयौनिसेचनं कुर्वीत। तस्याशी पिच्छिलेत्यादि ॥ ३५॥ - गङ्गाधरः-उड़ म्बरस्येत्यादि। उडम्बरस्य दुग्धेन क्षीरेण तिलान् षटकलो भावयेत्। भावितात् तत्तिलात् पीड़ितादुत्पन्नं तैलं तस्यैवोडम्बरस्य खक्काथेन चतुर्गुणेन सिद्धलं पूर्ववत् पिचुना धार्यम्, तत उडु म्बरकषायेण सशर्करेण योनिसेचनं कुर्वीत । तस्य पिच्छिलाद्याशीः पूर्ववत् ॥ ३६॥ .... - चक्रपाणि:-उदुम्बरशलाटूनामित्यादौ पञ्चवल्कादिसहितानां द्रोणं समभागं द्रव्यमानं गृहीतम्। निसैिरिति पलाशस्यैव निर्यासैः। लाक्षा च पलाशव्यतिरेकेण भवतीति शेकम् । सशर्करः कषारिति उदुम्बाशलाटादिकृतकषायरेवेत्यर्थः। काटष्टा चिराइष्टा। उपना For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy