________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४६०
चरक-संहिता। योनिण्यापचिकिस्सितम् विंशतिापदो योनेनिर्दिष्टा रोगसंग्रह। मिथ्याचारेण ताः स्त्रीणां प्रदुष्टनातवेन च । जायन्तै वोजदोषाच्च दैवाच्च शृणु ताः पृथक् ॥३॥ वातलाहारचेष्टाया वातलायाः समीरणः। विवृद्धो योनिमाश्रित्य योनेस्तोदं सवेदनम् ॥ स्तम्भं पिपोलिकास्तृप्तिमिव कर्कशतां तथा। करोति सुप्तिमायासं वातजांश्चापरान् गदान् । सा स्यात् सशब्दरुक फेन-तनुरूवार्त्तवानिलात् ॥ ४॥ व्यापल्लवणकटुम्ल-क्षारादः पित्तजा भवेत् । दाहपाकज्वरोष्णा" नीलपीतसितार्त्तवा। भृशोष्णकुणपत्रावा योनिः स्यात् पित्तदूषिता ॥५॥ गङ्गाधरः–तयथा। विंशतिरित्यादि। रोगसंग्रहेऽष्टोदरीयेऽध्याये। ता योनिव्यापदः स्त्रीणां मिथ्याचारेण प्रदुष्टेनार्त्तवेन च जायन्ते वीजदोषाच जायन्ते दैवाच्च दिष्टाज्जायन्ते ताः पृथक विंशतिं शृण ॥३॥ . गङ्गाधरः-वातलेत्यादि। वातलायाः जन्मप्रभृतिवातोल्वणप्रकृतिकाया नार्याः। पिपीलिकानां सृप्तिं सर्पणमिव आर्त्तवप्रवृत्तिकाले सशब्दं सरुक च • यथा स्यात् तथा सफेनं तनु चाघनं रूक्षश्चातवं सा योनिः सृजेदिति । सशब्दाचार्त्तवा सा योनिः स्यात् ॥४॥ - गङ्गाधरः-व्यापदित्यादि। लवणादीनामतिसेवनात् पित्तजा योनेयापद भवेत् । तस्य लक्षणमाह-दाहेत्यादि। सा पित्तदूर्षिता पित्तजव्यापदयुता योनिर्दाहाद्यात नीलाद्यार्त्तवा भृशोष्णादिस्रावा स्यात् ॥५॥ चारात्। रोगसंग्रह इति अष्टोदरीये। मिथ्याचारेण असम्यगाचरणेन । प्रदृष्टेनात्तैवेनेति वातादिदृष्टार्तवेन योनिव्यापद् भवति। वीजदोषादिति वीजातवदोषात्। देवादिति अकर्मवशात् । एतेषाञ्च यथायोग्यतया कारणत्वम् अग्रे वक्ष्यमाणकारणत्वभेदेन योनिब्यापत्सु उपपादितमेव, देवन्तु सर्वत्रैव साधारणकारणम् ॥ १-३॥
चक्रपाणिः-वादलाया इति विशेषेण वातलयोनिव्यापदुत्पादोपदर्शनार्थम् । पिपीलिकासृप्तिमिति पिपीलिका परिसर्पणाकारा वेदना। सशब्दरुफेनतनुरुमार्त्तवेति एवम्भूतार्तवा भवति,
For Private and Personal Use Only