SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २य अध्यायः ] चिकित्सितस्थानम् । गत्वा गत्वापि बहुशो यां तृप्तिं नैव गच्छति । सा स्त्री वृष्यतमा तस्य नानाभावा हि मानवाः ॥ ७ ॥ अतुल्यगोत्रां वृष्याञ्च प्रहृष्टां निरुपद्रवाम् । शुद्धस्नातां व्रजेन्नारीमपत्यार्थी निरामयः ॥ ८ ॥ अच्छा यश्चैकशाखश्च निष्फलश्च यथा द्रुमः । अनिष्टगन्धश्चैकश्च निरपत्यस्तथा नरः ॥ चित्रदीपः सरः शुष्कमधातुर्धातुसन्निभः । निष्प्रजस्तृणपूलीति ज्ञातव्यः पुरुषाकृतिः ॥ For Private and Personal Use Only २३५१ स्त्रियं याति गच्छति, यां स्त्रियं बहुशोऽपि गत्वा गत्वा यः पुमान् तृप्तिं नैव गच्छति सा सा स्त्री तस्य तस्य पुंसो दृष्यतमा ध्रुवाय हिततमा । वृषस्तु खलु शुक्रधातुः । कस्मात् तस्य तस्य सा सा वृष्यतमेत्यत आह- नानेत्यादि । मानवाः पुमांसो हि यस्मान्नानाभावा न तु तुल्यभावाः । यो यावद्भावः पुमान् तस्य तावद्भावा स्त्री वृष्यतमेति भावः ॥ ७ ॥ गङ्गाधरः - नन्वेवं चेत् तुल्यभावा या या स्त्री भवति सैव गम्या किं स्यात्, स्याच्चेत तदा तदायत्तौ हि धर्मार्थावित्यादिकं न स्यात्, परदारसगोत्रादीनां स्त्रीणां गमने धर्मादिविरोधादित्यत आह-अतुल्येत्यादि । अतुल्यगोत्रां यथाविधि खोढाम् । निरुपद्रवामिति अरोगाम् । शुद्धस्नातामित्यनेन रजस्वलां त्रिरात्रात् ऊर्द्ध यदा शुद्धस्नाता भवति तदा यावदृतुसद्भावस्तावद् गम्यैव, न तु तदूर्द्ध न वा तदानीम् गम्या रागात् तु गम्या ॥ ८ ॥ गङ्गाधरः- ननु पुमान् यदानपत्यः स्यात् तदा किं स्यादित्यत आहअच्छाय इत्यादि । एकशाखस्तु द्रुमः अच्छायो निष्फलश्च यथा भवति, तथा एको नरः स्त्रियं विना अनिष्टगन्धोऽग्राह्यो निरपत्यश्च । अनपत्यस्य पुसो निन्दात्वं दर्शयति-चित्रदीप इत्यादि । निष्प्रजो निरपत्यः प्रीतिकरणादिकर्म्मणः ; मनःशयः कामः पाशभूतेति मनइन्द्रियबन्धहेतुत्वात् ; नानाभावा हि मानवाः इत्यनेन रूपादिगुणयोगेन न सर्व्वपुरुषान् प्रति स्त्रीणां प्रियत्वमिति दर्शयति ॥ ६-८ ॥ ; 'चक्रपाणिः -- सम्प्रति वृष्यप्रयोगसाध्य पुत्रस्योपादेयतां दर्शयन् आह - अच्छाय इत्यादि । एकशाख इत्येकस्वरूप इत्यर्थः। चित्रलिखितदीपश्चिलदीपः । अधातुर्धातुसनिभ इति सुवर्णादिवदाभासते
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy