SearchBrowseAboutContactDonate
Page Preview
Page 1217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [वातरक्तचिकित्सितम् ३४४६ चरक-संहिता। शतपुष्पावरीमूर्खा-पयस्यागुरुचन्दनः। स्थिराहंसपदीमांसी-द्विमेदामधुपर्णिभिः ॥ काकोलीक्षीरकाकोली-तामलकूद्धिपद्मकैः। जोवकर्षभजीवन्ती-त्वपत्रनखबालकः॥ प्रपौण्डरोकमञ्जिष्ठा-सारिवेन्द्रीवितुन्नकैः । चत्तुःप्रयोगात् तद्धन्ति तैलं मारुतशोणितम् ॥ सोपद्रवं सागशूलं सर्वगात्रानुगं तथा। वातापित्तदाहार्ति-ज्वरघ्नं बलवर्णकृत् ॥३०॥ मधुकस्य शतं द्राक्षा खजराणि परूषकम् । मधूकोदनपाक्यौ च प्रस्थं मुजातकस्य च ॥ काश्माढकमित्येतच्चतुोणे पचेदपाम्। शेषेऽष्टभागे पूते च तस्मिंस्तैलाढकं पचेत् ॥ तथामलककाश्मर्य-विदारीक्षुरसैः समः। चतुद्रोणेन पयसा कल्क दत्त्वा विपाचितम् ॥ .. शतपुष्पादीनां प्रत्येकं पलं कल्कः। वितुन्नकस्तामलकीप्रभेदः भागद्वयं वा। चतुःप्रयोगादिह प्रोक्तवस्तिकर्मनस्याभ्यञ्जनसेकैः प्रयोगात् ॥ ३० ॥ - मधुपादितैलम् । गङ्गाधरः-मधुकस्येत्यादि। यष्टीमधुपलशतं द्राक्षादीनां प्रत्येकं प्रस्थः। काश्मय्यस्य गम्भारीफलस्याकं चतुर्दोणे जले पचेत्। अष्टभागे शेषे द्वात्रिंशच्छरावे तैलाढकं षोड़शशरावं आमलकरसं काश्मरीफलरसं विदारी दत्त्वा तैलादकं पचेत् । वरी शतावरी। हंसपदी स्वनामख्याता। विसुन्नकं धान्यकम् । चतुःप्रयोगादिति पानाभ्यङ्गवस्तिनस्यप्रयोगात् ॥ २७-३०॥ चक्रपाणिः-मधुकस्य शतमिति शतधा पाकेन मधुकपलशतात् सिमित्यर्थः। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy