SearchBrowseAboutContactDonate
Page Preview
Page 1210
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९श अध्यायः ] चिकित्सितस्थानम् । वनं मृदु नात्यर्थं स्नेहसेौ विलङ्घनम् । कोष्णा लेपाश्च शस्यन्तै वातरक्त कफोत्तरे ॥ कफवातोत्तरे शीतैः प्रलिप्ते वातशोणिते । विदाहशोफरुक्कराडू - विवृद्धिः स्तम्भनादं भवेत् ॥ रक्तपित्तोत्तरे @ दाहः नदोवदारणं भवेत् । उष्णैस्तस्माद् भिषक् दोष- बलं बुद्धा चरेत् क्रियाम् ॥ १५॥ दिवास्वप्नं ससन्तापं व्यायामं मैथुनं तथा । कटूष्णगुर्व्वभिष्यन्दि लवणाम्लञ्च वर्जयेत् ॥ १६ ॥ पुराण्यवगोधूम - नीवाराः शालिषष्टिकाः । भोजनार्थे रसार्थन्तु विष्किरप्रतुदा हिताः ॥ आदृक्यश्चरणका मुद्दा मसूराः समुकुष्टकाः । यूषार्थे बहुतपिष्काः प्रशस्ता वातशोणितै ॥ सुनिषरण कवेत्राग्र - काकमाचीशतावरीम् । वास्तुकोपोदिकाशाकं शाकं सौवर्चलं तथा ॥ जयेत् । वमनमित्यादि । कफोत्तरे उत्ताने वातरक्ते वमनादयः शस्यन्ते । द्वन्द्वजक्रियामाह - कफवातोत्तर इत्यादि । कफवातोत्तरे उत्ताने शीतैः प्रलिप्ते स्तम्भनाद् विदाहादिवृद्धिः स्यात् । पित्तरक्तोत्तरे तूष्णैर्लिप्ते दाहादिकं भवेत् । तस्माद दोषबळं बुद्धा क्रियां चरेत् ।। १५ ।। गङ्गाधरः- वज्र्ज्यान्याह - दिवेत्यादि । वातरक्ते दिवास्वमादिकं वज्जयेत् ॥ १६ गङ्गाधरः -- पथ्यान्याह – पुराणेत्यादि । पुराणयवादयो भोजनार्थं विष्किरादयो मांसरसार्थम् । यूषार्थे बहुसर्पिष्का आढक्यादयः शस्ताः । शाकन्तु अविदाहिनः । विशेषमिति विशिष्टचिकित्सितम् । वाह्यमित्युक्त्वा कफोत्तरे वातोत्तरे च शीतप्रलेपदीर्घमाह- कफवातोत्तर इत्यादि । शीतलेपेन विदाहोऽल उष्णरोधाद् भवतीति ज्ञेयम् । पित्तोत्तरे रतोत्तरे च उष्णैः प्रलेपैर्दोषमाह - रक्तपित्तोत्तर इत्यादि । दोषबलं बद्धा अनुगुणामेव क्रियामाचरेत्, वातकफोत्तरे उष्णा रक्तपित्तोत्तरे शीता मिश्र व मिश्रा ॥ १३-१६ ॥ ● वातपित्तरे इति कचित् पाठः । For Private and Personal Use Only ३४३६
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy