SearchBrowseAboutContactDonate
Page Preview
Page 1208
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२९२ अध्यायः- चिकित्सितस्थानम्। ३४३७ रक्तमार्ग निहन्त्याशु शाखासन्धिषु मारुतः। निविश्यान्योऽन्यमावाध्य वेदनाभिहरेदसून् ॥ तत्र मुञ्चेदसृक् शृङ्ग-सूच्यलावुजलौकसा । प्रच्छनैर्वा सिराभिर्वा यथादोषं यथाबलम् ॥ रुग्दाहतोदरागादिसक स्राव्यं जलौकसा। शृरैस्तु वै चिमिचिमा कण्डूरुग् दूयनात् हरेत् ॥ .. देशाद देशं व्रजत् स्राव्यं सिराभिः प्रच्छनेन वा। अङ्गग्लानौ तु न स्राव्यं रूक्षे वातोत्तरे च यत् ॥ गम्भीरं श्वयथं स्तम्भं कम्पं स्नायुसिरामयान् छ। . ग्लानिश्चापि ससङ्कोचां कुर्याद वायुरमृक्क्षयात् ॥ . कृत्स्नेनोपद्रवेणोपद्रतं वातरक्त याप्यं निरुपद्रवन्त्वेकदोषानुगं साध्य स्यात् ॥११॥ गङ्गाधरः-अत्र साध्ये क्रियाथमाह-रक्तेत्यादि। वातरक्ते मारुतः शाखासन्धिषु निविश्य रक्तमार्गमाशु निहन्ति ततो रक्तश्च मारुतश्चान्योऽन्यमावाध्य वेदनाभिरसून् हरेत्। तत्रासक शृङ्गादिभिमुश्चत्। यथादोषमाहरुगित्यादि। रूगादियुक्ताद वातरक्तादसक जलोकसा मुश्चत। चिमिचिमादियुक्तात् भवरेत् । देशाद देशं व्रजन वातरक्तेऽसूक् सिराभिः प्रच्छनेन वा स्राव्यम्। अयोग्यमाह-अङ्गग्लानावित्यादि। अङ्गग्लान्यादौ कस्मान स्राव्यमित्यत आहगम्भीरमित्यादि। अग्लानौ रुक्षे वातोत्तरे च वायुः (स्नायुसिरामुखात् ) भाहुः । वातशोणितस्य हि प्रायेण मधुरशीतोपक्रमः, तद्विपरीतस्तु मेहस्येति विरुद्धोपक्रमता। विवर्णमिति विपरीतवर्णम्, विवर्णस्वमत तु वातानुषङ्गोपद्रवः ॥९-११ ॥ चक्रपाणिः-वातशोणितस्य रक्तहरणार्थै रूपमाह-रक्तमार्गमित्यादि। रकस्य मार्ग मारुतो निहन्ति, शाखासन्धिषु निविश्य रक्तनिरोधाद् अन्योऽन्यमावाध्य रक्तेन वातं वातेन च रक्तं भावाध्य वेदनाभिः हरेदसूनिति योज्यम् । अत एवाह । भन वातशोणिते असृक विमुन्चेदिति भावः । असूमोक्षणेन भावरकव्यपगमात् वायुरपि प्रसन्नो भवति ततश्च व्याध्युपरमः। देशाद देशं अंजदिति प्रसरणशोलम्। सावनाहे शोणितेऽपि भतिस्रावणाद् दोषमाह-गम्भीरमित्यादि। * स्नायुसिरामयात तथा स्नायुसिरामुखादिति वा पाठः कचित् । ४३१ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy