SearchBrowseAboutContactDonate
Page Preview
Page 1206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - २९श अध्यायः ] चिकित्सितस्थानम् । तत्र वातोऽधिको वा स्याद् रक्तं पित्तं कफोऽपि वा । संसृष्टैश्च समस्तैश्च यच्च तच्छृणु लचणैः ॥ ७ ॥ विशेषतः सिरायामस्तोदस्फुरणभेदनम् । शोथस्य काष्यं रौदयञ्च श्यावतावृद्धिहानयः ॥ धमन्यङ्गलिसन्धीनां सङ्कोचोऽङ्गग्रहोऽतिरुक् । कुञ्चनस्तम्भने शोत- प्रद्वेषश्चानिलोत्तरे ॥ रक्त शोथोऽतिरुक तोदस्ताम्रश्चिमिचिमायते । स्निग्धरूक्षः शमं नैति कण्डुस्वेदान्वितो भृशम् ॥ विदाहो वेदना मूर्च्छा स्वेदस्तृष्णा मदो भ्रमः । रागः पाकश्च भेदश्च शोषश्वोक्तानि पैत्तिके ॥ स्तैमित्यं गौरवं स्वेदः सुप्तिर्मन्दा च रुक् कफे । हेतुलक्षणसंसर्गाद् वदेद इन्द्र त्रिदोषजम् ॥ ८ ॥ For Private and Personal Use Only ३४३५ 'गङ्गाधरः- तत्रेत्यादि । तत्रोभयाश्रये संसृष्टैश्व समस्तैश्च वातोऽधिकः स्यात् पित्तञ्च रक्तश्च कफश्चाधिको भवति तल्लक्षणं शृणु ॥ ७ ॥ गङ्गाधरः- विशेषत इत्यादि । अनिलोत्तरे वातरक्ते सिरायामः सिराणां देध्यं तोदादीनि च । रक्त इत्यादि । रक्ते रक्ताधिके वातरक्ते यः शोथः सोऽतिरुक तोदः इत्यादि स्यात् । विदाह इत्यादि । पैत्तिके पित्ताधिके वातरक्ते विदाहादयः स्युः । स्तैमित्यमित्यादि । कफे कफाधिके वातरक्ते स्तै मित्यादि स्यात् । हेतुलक्षणद्वन्द्वसर्व्वाणां संसर्गाद् द्वन्द्व वातरक्तं त्रिदोषजश्च वदेत् ॥ ८ ॥ वचनं बाधकम् । चरके तु उत्तानमेवावतिष्ठते इति नैवोक्तम् । किन्तु प्रथमोत्पत्तौ किञ्चिदुतानमुत् पद्यते किञ्चित् तु गम्भीरमिति, तेन न विरोधश्वरकसुश्रुतयोः ॥ ६ ॥ चक्रपाणिः - तव वातेऽधिके इत्यादौ पित्तवृद्धिः श्रोणितवृद्धिः कफवृद्धिज्ञया । संसृष्टरिति द्विविमेलकैः समस्तैरिति चतुर्मिलितैः । शिरायामेत्यादिना वातादुपल्बणानां चतुर्ण लक्षणमाह । भायामो विस्तरणम्, श्यावता श्याववर्णत्वम् । श्वयथुरित्यादिना उद्विक्तरक्तस्य विशेषणम् । द्वन्द्वं सिदोषजमित्यत अधिकशोणितानुबन्धोऽपि गृहीतव्यः । तेन वातादिचतुष्टयमेलकजम् अपि वातशोणितं ज्ञयम् । अत एव द्वितिसर्वाधिकभेदात् द्विविध्वस्यापि वातशोणितस्य पूर्णटीकाकृञिः
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy