SearchBrowseAboutContactDonate
Page Preview
Page 1192
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ अध्यायः] चिकित्सितस्थानम्। ३४२१ वमनैर्वा विरेकैर्वा वस्तिभिः शमनेन वा। इस्युक्तमावृते वात पित्तादिभिर्यथायथम् ॥ ६४ ॥ मारुतानाश्च पञ्चानामन्योऽन्यावरणं शृणु। लिङ्ग व्याससमासाभ्यामुच्यमानं मयानघ ॥ ६५ ॥ प्राणो वृणोत्युदानादोन प्राणं वृण्वन्ति तेऽपि च । उदानाद्यास्तथान्योऽन्यं सर्व एव यथाक्रमम् ॥ विंशतिवरणान्येतान्युल्बणानां परस्परम् । मारुतानाश्च पञ्चानां तानि सम्यक् प्रतयेत् ॥६६॥ स्वस्थानस्थ इत्यादि । दोषो यदि स्वस्थाने तिष्ठन् बलवान् भवति तदा तं प्राक स्वैरोषधैर्जयेत् । कैरित्यत आह। वमनैः कर्फ स्वस्थानस्थं बलिनं जयेत् । विरेकः पित्तं वस्तिभिर्वायु शमनेन वा तं तं जयेत् ॥ ६४॥ गङ्गाधरः-अथ वायोर्वाय्वावरणं यदुक्तं तल्लक्षणमाह-मारुतानाञ्चेत्यादि। व्याससमासाभ्यां विस्तरसंक्षेपाभ्याम् ॥६५॥ गङ्गाधरः-तव्यथा। प्राण इत्यादि। उदानादीन् शेषांश्चतुरः। ते च चखारः प्राणं वृण्वन्ति । एवमुदानाद्याश्चखारः । उदानः शेषान् चतुर आवृणोति उदानश्च शेषा आटण्वन्ति। समानः शेषांश्चतुर आवृणोति समानञ्च शेषा आवण्वन्ति। व्यानः शेषानावृणोति व्यानञ्च शेषा आण्वन्ति। अपानः शेषानावृणोति अपानश्च शेषा आरण्वन्तीति सङ्घ पोक्तिः। विंशतिवरणान्याबरणान्येतानि उल्षणदोषाणां परस्परं भवन्ति ॥६६॥ कतमैः स्वैरौषधैरित्याह-वमरित्यादि। शमनेनेति कफादिशमनेनैव । शमनञ्च शोधनानन्तरं शोधनार्ह वा ज्ञेयम् ॥ ६४ ॥ चक्रपाणि:-मारुतानाम् अन्योऽन्यावरणमाह-मारुतानामित्यादि। यद्यपि चेह वायोरमूतत्वं वातकलाकलीये प्रोक्तम्, तथापीदममूर्त्तत्वमग्निवाचकं न त्ववयवप्रतिषेधकम्। तेन वायोः वायु प्रति आवरणमुपपन्नमेव। दृष्टा च वायुना वाय्वन्तरेण अपघातेन वातकुण्डलिका वहिरपनीतेन तेन वातादीनां परस्परमावरणमुपपन्नमेव । प्राणो वृणोत्युदानादीनित्यादिना विंशत्याघरणान्युक्तानि। प्राणो वृणोत्युदानादीनित्यनेन चत्वार्यावरणानि, प्राणं वृण्वन्ति तेऽपि चेत्यनेन ४२९ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy