________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४१८
चरक-संहिता। वातव्याधिचिकिस्सितम् क्रिया साधारणी सङ्घ संसृष्टा चापि शस्यते । वातपित्तादिभिः स्रोतःखावृतेषु विशेषतः ॥ पित्तावृते विशेषेण शोतामुष्णां तथा क्रियाम् । व्यत्यासात् कारयेत् सर्पिर्जीवनीयञ्च शस्यते ॥ धन्वमांसं यवाः शालिर्यापनाः क्षीरवस्तयः । विरेकः क्षीरपानश्च पञ्चमूलीबलाभृतम् ॥ मधुयष्टोबलातैल-घृतक्षीरश्च सेचनम् । पञ्चमूलीकषायेण कुर्याद वा शीतवारिणा ॥ कफावृते यवान्नानि जाङ्गला मृगपक्षिणः। स्वेदा निरूहास्तीक्ष्णश्च वमनं सविरेचनम् ॥ पुराणसर्पिस्तैलञ्च तिलसर्षपज हितम्। । संसृष्टे कफपित्ताभ्यां पित्तमादौ विनिर्जयेत् ॥ ६३ ॥ गङ्गाधरः-क्रियेत्यादि। साधारणवातोक्ता क्रिया तथा संसृष्टा चापि या क्रिया सा वाताद्याटतेषु स्रोतःसु विशेषतः शस्यते। पित्तावृत इत्यादि। व्यत्यासादावरकदोषविपर्यासात् क्रियामात्तवाते कारयेत्। जीवनीयं सर्पिश्चास्तवाते शस्यते । धन्वमांसादिकम्, यापना वस्तयः क्षीरवस्तयश्च वक्ष्यन्ते सिद्धिषु। पञ्चमूली स्वल्पा वातपित्तहरखात्। मधुयष्टी यष्टीमधुकाथेन बलातैलेन घृतेन क्षीरेण च सेचनं पञ्चमूल्याः स्वल्पायाः कषायेण शीतवारिणा वा सेचनं पित्ताहते कुर्यादिति। कफात इत्यादि। तिलसषेप तैलं तिलतैलं सार्ष पतैलञ्च न तु मिश्रितम्। संसृष्ट इत्यादि। कफपित्ताभ्यामाते वाते खादो पित्तं निर्जयेत् ।। ६३॥
चक्रपाणिः-सम्प्रति दोषान्तरादिसंसृष्टवातचिकित्सामाह-क्रिया साधारणीत्यादि। साधारणीति या वाते सा संसर्गिणी च पित्तादौ समाना, न केवलं संसृष्टवायो साधारणी किन्तु वातपित्तादिभिरावृतेऽपि साधारणी कर्तव्या। केचित् तु वातपित्तादिभिरिति पठन्ति । पाठः सुगमः। विशिष्टसूतिता क्रियामाह-पित्तावृते इत्यादि। व्यत्यासादिति परिवर्तनेन शीतां कृत्वोष्णां उष्णाच कृत्वा शीतां कुर्यादित्यर्थः। यापनाः वस्तयः सिद्धौ वक्ष्यमाणाः। पित्तमादौ विनियेत् इति वनेन कफापेक्षया पित्तस्याशुकारितया पित्तजयमेवोपदिशति ॥ ३ ॥
For Private and Personal Use Only