SearchBrowseAboutContactDonate
Page Preview
Page 1184
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८ अध्यायः] चिकित्सितस्थानम् । ३४१३ लवगनतककोल-कुष्ठगन्धप्रियङ्गभिः । स्थौणेयतगरध्याम-वचामदनकसवैः॥ सनागकेशरैः सिद्धे दद्याचात्रावतारिते। पत्रकल्कं ततः पूतं विधिना तत् प्रयोजयेत् ॥ कासं श्वासं वरं मूर्छा-छर्दिगुल्मान् क्षतं क्षयम् । मोहशोषावपस्मारमलक्ष्मोश्च विनाशयेत् ॥ बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम् । अग्निवेशाय गुरुणा कृष्णात्रेयेण भाषितम् ॥ ५३॥ बलातैलम् । अमृतायास्तुलाः पञ्च द्रोणेष्वष्टखपां पचेत् । पादशेषे समक्षीरं तैलस्या दकं पचेत् ॥ एलामांसीनतोशीर-सारिवाकुष्ठचन्दनः । शतपुष्पाबलामेदा-महामेदर्द्धिजीवकैः ॥ काकोलीक्षीरकाकोली-श्रावण्यतिबलानखैः। महाश्रावणिजीवन्तो-विदारीकपिकच्छुभिः ॥ शिडकक्षनिर्यासः। गन्धप्रियङ्गुः । एषु कल्केषु मध्ये तूत्तमसुगन्धिद्रव्याणि कस्तूरीजातीकोषकुङ्कु मजातिफलक' रलवङ्गानि पाककाले तैलमध्ये न दत्त्वा तैले सिद्धे पूतेऽवतारिते चोष्ण एव सम्यक् पिष्टा चूर्णीकृत्य पत्रकल्क प्रयोजयेत्। “पके पूते चोष्ण एव सम्यग यत् परिपेषितम्। दीयते गन्धवृद्धार्थ पत्रकल्कं तदुच्यते ॥” इति ॥५३॥ ___ बलातैलम्। गङ्गाधरः-अमृताया इत्यादि। अमृताया गुडूच्याः पञ्च तुलाः अपामष्टसु द्रोणेषु पचेत् । पादशेषे काथे तैलस्या ढकमष्टशरावं क्षीरश्चाष्टशरावं तत्र गन्धशास्त्रं च चूर्णस्वरसपुष्पाणां सिद्धयः शीते भवतारिते दीयन्ते गन्धवृद्धयर्थम्। पलकल्कमिति तेन कर्पूरादिपतकलकः अवतारितेऽपि देयः ॥ ४८-५३ ॥ ४२८ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy