SearchBrowseAboutContactDonate
Page Preview
Page 1170
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८श अध्यायः चिकित्सितस्थानम् । ३३६६ गात्रश्लेषो हनुस्तम्भः कुश्चनं कुब्जतादितम् । सन्धिच्युतिः पक्षबधः पाङ्गत्यं खुड़वातता॥ स्तम्भनं चाट्यवातश्च रोगा मजास्थिगाश्च ये। एते स्थानस्य गाम्भीर्य्यात् यत्नात् सिध्यन्ति वा न वा ॥ नवान् बलवतस्त्वेतान् साधयेन्निरुपद्रवान् ॥ २२ ॥ क्रियामतःपरं सिद्धां वातरोगापहां शृण । केवलं निरुपस्तम्भमादौ स्नेहरुपाचरेत् । वायुं सपिर्वसातैल-मजपानैर्नरं ततः॥ स्नेहक्रान्तं समाश्वास्य पयोभिः स्नेहयेत् पुनः। यूषैर्याम्याम्बुजानूप-रसैर्वा स्नेहसंयुतैः॥ गङ्गाधरः-गात्रेत्यादि। गात्रश्लेषादयो वातरोगा ये त एते स्थानगाम्भीर्यात् यत्नात् सिध्यन्ति वा न वा। नवांस्तु खल्वेतान् गात्रश्लेषादीन निरुपद्रवान् बलवतो नरस्य साधयेत् ॥ २२ ॥ - गङ्गाधरः-इत्यन्यातवातरोगानुक्त्वा तेषां चिकित्सितं वक्तुमुच्यते। क्रियामत इत्यादि । केवलमित्यादि । केवलं वायु निरुपस्तम्भं स्तम्भहीनमादौ सर्पिरादिभिः स्नेहरुपाचरेत् । सपिरादिपानः स्नेहक्लान्तं नरं ततः समाश्चास्य पयोभिः पुनः स्नेहयेत्। स्नेहसंयुतैयू पैरथवा स्नेहसंयुताम्यादिमांसरसैः स कच्छ इत्यादि। अत्र कुब्जत्वपङ्गुत्वादयो यद्यपि साक्षान्न प्रपञ्चितास्तथापि विशेषदोषेणैव सलक्षणं ज्ञेयम्। खण्डवातता गुल्फवातता किंवा सन्निपातवातः। मजास्थिगा इति मजास्थिगतवातजन्या इत्यर्थः। स्थानस्य गाम्भीर्यादिति गम्भीरस्थानाश्रितत्वात्। अन्ये तु गाम्भीर्य्यत्वमाहुः। वैद्यस्तु नावश्यं सर्वत अव्याहतज्ञानो भवति। तेन संशयाभिधानमिति ज्ञेयम्। नवानामप्येषां निरुपद्रवतया साध्यतामाह-नवानित्यादि। उपद्रवाश्चात शृङ्गमाहितयानुक्ता अपि सामान्योपलक्षणयुक्ता एव केचित् गदा विज्ञ याः। विवा अध्यायशेष हृद्रोगविद्रधीत्यादिना वक्ष्यमाणा उपद्वा ज्ञेयाः ॥ २१ ॥ २२॥ चक्रपाणि:-अवसरप्राप्तां क्रियामाह-क्रियामत इत्यादि। केवलमित्यादौ केवलमिति असं सृष्टम् । निरुपस्तम्भमित्यनावृतम्। कैः स्नेहैः कथञ्चोपाचरेदित्याह-सर्विसातैलमजपानरिति । स्नेहपानामन्तरं कर्त्तव्यमाह-नरं ततः स्नेहक्लान्तमित्यादि। स्नेहपानोद्विग्नं समा For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy