SearchBrowseAboutContactDonate
Page Preview
Page 1161
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३६० चरक संहिता | तत्र कोष्ठाश्रिते दुष्ट निग्रहो मूत्रवच्चसोः । ब्रध्नहृद्रोगगुल्मार्शः पार्श्वशूलञ्च मारुते ॥ सर्वाङ्गकुपिते वाते गात्रस्फुरणभञ्जने । वेदनाभिः परीतश्च स्फुटन्तीवास्य सन्धयः ॥ ग्रहो विमृत्रवातानां शूलाध्मानाश्मशर्कराः । जोरुत्रिकपात्पृष्ठ - रोगशोथौ गुदे स्थिते ॥ रुक् पार्श्वोदरहृन्नाभेस्तृणोद्वार विसूचिकाः । कासः कण्ठास्यशोषश्च श्वासश्चामाशयस्थिते ॥ पक्वाशयस्थोऽन्त्रकूजं शूलाटोपौ करोति च । कुच्छमूत्रपुरीषत्वमानाहं त्रिकवेदनाम् ॥ श्रोत्रादिष्विन्द्रियवधं कुर्य्यात् क्रुद्धः समीरणः ॥ त्वचा स्फुटिता सुप्ता कृशा कृष्णा च तुद्यते । C तन्यते सरागा च पर्व्वरुक वग्गतेऽनिले ॥ रुजस्तीत्राः ससन्तापा वैवयं कृशताऽरुचिः । गात्रे चारूषि भुक्तस्य स्तम्भश्चासृग्गतेऽनिले ॥ [ वातव्याधिचिकित्सितम् उपसंहारार्थमाह - एवं विधानीत्यादि । हेतुविशेषात् स्थानविशेषाच्च रोग विशेषकृत् कुपितोऽनिलो भवति । तद्विशेषोऽत ऊर्द्ध वक्ष्यते ॥ ८ ॥ 1 गङ्गाधरः- तत्र स्थानविशेषे रोगानाह - तत्रेत्यादि । कोष्ठाश्रिते दुष्टे मारुते मूत्रनिग्रहादि । सर्व्वाङ्गकुपिते गात्रस्फुरणादि । गुदे स्थिते वाते विष्मूत्रादिग्रहादि । आमाशयस्थिते वाते पाश्रुगादि । पकाशयस्थो वातोऽन्त्रकूजनादि करोति । श्रोत्रादिषु स्थितः क्रुद्धः समीरण इन्द्रियवधं कुर्य्यात् । खगगतेऽनिले त्वक्षादि स्यात् । असृग्गतेऽनिले रुजस्तीत्रा इत्यादयः स्युः । For Private and Personal Use Only नामया इति । हेत्वित्यादि वातव्याधिविशेष हेतुस्थान विशेषः । उक्तं हि - प्रकुपितास्तु प्रकोपणविशेषान् दूष्य विशेषान् दूषयन्ति ॥ ८ ॥ चक्रपाणिः सर्वाङ्गकुपिते इति कृत्स्रदेहकुपिते। गुढे इत्युत्तरगुदे । भातन्यने विस्तारयते ।
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy