________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६०
चरक-संहिता। त्रिमर्मीयचिकिसितम् मातुलुङ्गरसश्चैव कदल्या रस एव च। तैलमेभिर्विपक्तव्यं कर्णशलहरं परम् ॥ वाधिय्यं कर्णनादश्च पूयस्त्रावश्च दारुणः। पूरणादस्य तैलस्य क्रिमयः कामाश्रिताः॥ क्षिणप्रणाशं गच्छन्ति कृष्णात्रेयस्य शासनात् । क्षारतैलमिदं श्रेष्ठं मुखदन्तामयापहम् ॥ ११४ ॥ हिङ्गतुम्बुरुशुण्ठीभिः साध्यं तैलन्तु सार्षपम् । कर्णशूले प्रधानन्तु पूरण हितमुच्यते ॥ ११५ ॥ देवदारुवचाशुण्ठी-शताहाकुष्ठसैन्धवः। तैलं सिद्धं वस्तमूत्रे कर्णशूलनिवारणम् ॥ ११६ ॥ वराटकान् समाहृत्य दग्ध्वा मृद्भाजने शुभे।
तद्भस्म स्त्रावयित्वा तु गन्धतैलं विपाचयेत् ॥ यथा-"जम्बीराणां फलरसः प्रस्थैकः कुड़वोन्मितम् । माक्षिकं तत्र दातव्यं पलेका पिप्पली मता। एतदेकीकृतं सर्च मधुभाण्डे विनिक्षिपेत् । धान्यराशी स्थितं मासं मधुशुक्तं तदुच्यते॥” मातुलुङ्गरसश्च तैलाचतुर्गुणः कदल्याः कन्दस्य रसश्च तैलाचतुर्गुणः, एभिस्तैलं विपक्तव्यम् । क्षारतलम् ॥११४॥
गङ्गाधरा-हिङ्गि त्यादि। हिङ्गादित्रयं कल्कश्चतुर्गुणञ्च जलम् ॥ ११५॥
गङ्गाधरः-देवदार्चित्यादि। देवदार्वादिसैन्धवान्तः कल्कश्चतुर्गुणे वस्त्रमूत्रे सिद्धं तैलम् ।।११६॥
गङ्गाधरः-वराटकानित्यादि। मृद्भाजने स्थापयिता वराटकान् बध्वा तेषां भस्म चतुणे जले षड्गुणे वा एकविंशतिवारान् स्रावयिता चतुगुणे मातुलुङ्गकदलीरसौ तैलसमौ। यच्चोक्तं जतूकण:-'मधुनः शुक्तग्रहणेनव गृहीतत्वात् शुक्ला मूलकाताहाद्विधारवचाचतुर्लवणकुष्ठदारुरसाजननागरशोभाजनहिङ्गुधनभूजः मासुलावलीरस बसुगु मैः शुक्र्तस्तैलं विपक्क बाधिर्यशूलजन्तुन्नम् ॥ ११३-११६॥ .
For Private and Personal Use Only