SearchBrowseAboutContactDonate
Page Preview
Page 1118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६श अध्यायः] चिकित्सितस्थानम् । वातिके शिरसो रोगे स्नेहस्वेदान् सनावनान् । पानान्नमुपहारांश्च कुर्याद वातामयापहान् ॥ तैलभृष्टैरगुर्वादाः सुखोष्ण श्चोपनाहनम् । जीवनीयैः सुमनसां मत्स्यमांसैश्च शस्यते ॥८८॥ रानास्थिरादिभिः सिद्धं सक्षीरं नस्यमर्त्तिनुत् । तैलं रानादिकाकोली-शर्कराभिरथापि वा॥८॥ बलामधुकयष्टयाह्व-विदारीचन्दनोत्पलैः । जीवकर्षभकद्राक्षा-शर्कराभिश्च साधितः॥ प्रस्थस्तैलस्य सक्षीरो जाङ्गलाईतुलारसे। नस्यं सोईजत्रुघ्न वातपित्तामयापहम् ॥१०॥ दशमूलबलाराना-त्रिफलामधुकैः सह । मायूरं पक्षपित्तान्त्र-शकृत्पादास्यवर्जितम् ॥ गङ्गाधरः-इति नासारोगचिकित्सितमुक्त्वा प्रतिश्यायाजाते शिरोरोगास्यरोगकणेरोगाक्षिरोगचिकित्सितमाह। वातिके इत्यादि। उपहारा आहारोपयोगिनः। तैलभृष्टरित्यादि। अगुर्वादिगण उक्तोऽगुवादितैले ज्वरचिकित्सिते। शिरस उपनाहनम्। जीवनीयैर्दशभिरुपनाहनश्च सुमनसां मालत्यादिपुष्पाणामुपनाहनश्च मत्स्यमांसश्चोपनाहनं शिरसि शस्यते ॥८८॥ गङ्गाधरः-रास्नेत्यादि। स्थिरादिः शालपादिपञ्चमूलम्। नस्यमेत. तिके शिरोरोगेऽर्त्तिनुत्। अथवा रास्नादिकाकोलीशर्कराभिः सिद्धं तैलं नस्यं शिरोऽतिनुत् । रास्नादिरिह पूवो रास्ना स्थिरादिपञ्चमूलञ्च ॥८९॥ गङ्गाधरः-बलेत्यादि। बलादिभिः शर्करान्तैः कल्क तैलप्रस्थस्य पादिकः समक्षीरं तत् तैलं जाङ्गलमांसरसोऽर्द्ध तुला। सिद्धमिदं तैलं नस्यं सवौद्धजत्रु जरोगनमिति ॥९॥ गङ्गाधरः-दशमूलेत्यादि। पक्षादिवर्जितं मायरं मांसमस्थि च दशमूला चक्रपाणिः-दशमूलादीनां प्रत्येकं लिपलमानम्। समं मयूरं पक्षादिवज्जितं For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy